________________
( १४६)
पर इति तत्सम्बन्धिन्यन्य सम्बन्धिनि वेत्यर्थः द्वयोरिति द्रव्यवाचित्वात् अयं युष्मदस्मदर्थमेव विशिनष्टि स्यादिविशेषणत्वे तु स्यादेर्गुणाभिधायित्वात् 'द्वित्वे ' ।२।१।२२। इतिवद्भावप्रत्ययान्तेन निर्दिश्येत । युवाऽऽत्रा देश योरकारन्तत्वेन युष्मदस्मद्भ्यां णिचि क्विपि तल्लोपे च 'युव्योः अव्योः' इत्यादि सिद्धम् । अतिक्रान्ती युवामावां वा अतियुवाम् अस्यावाम् । अतिक्रान्तं युवा मावा अतियवां अत्यावाम् । अतिक्रान्तो युवामावां वा अतियुवाम् अत्यावां पश्य एवं अतियुवान् अत्यावान् अतियुवया, अत्यावया, अतियुवाभ्याम्, अत्यावाभ्याम् अतियुवाभिः अत्यावाभिः अतियुवाभ्याम् अत्यावाभ्याम् अतियुवभ्यस्, अत्यावभ्यम्, अतियुवत्, अत्यावत् अतियुवाभ्याम् अत्यावाभ्याम्, अतियुवत्, अत्यावदागतम्, अतियुवयोः अत्यावयोः, अतिवाकम् अत्यवाकं स्वम्, अतियुवयावयि, अतियुवयोः अत्या वयोः अतियुवासु अत्यावसु । सिजङ ङस् त्यये तु पत्त्रात्त्वमहमादयः एवअतित्वम् इत्यदि । द्वयोरित्यस्य युष्मदम्मद विशेषणत्वेन युष्मानस्मान ततिऋान्तौ अतियुष्माम् अत्यस्माम् २ अतियुष्माभ्यम् अत्यस्माभ्याम् ३ अतियुष्मयोः अत्यस्मयोः २ अत्र समास एव द्वित्व व शष्टेर्थे वर्तते न तु युष्मदस्मदी इति युवावो न भवतः । मन्तस्येति भणनात् युवकाभ्याम् आवकाभ्यामित्यत्रा तिः । दस्य यत्त्वमिति - 'टङयो सि० ' 1 - 1१1७ ॥ इति सूत्रेण । युष्मत्पुत्र इति - 'लुबन्तरङ्गेभ्यः' इति न्यायात्पूर्वं विभक्त ेर्लोपे 'लुप्य्य्वृल्लेनत्' | ७|४|११२ | इति स्थानिवद्भावनिषेधात्स्यादिपरत्वाभावादादेशो न भवति ॥ १०॥
'
त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् | २|१|११|
स्यादौ प्रत्ययोत्तरपदयोःच परयोरेकार्थवृत्त्योयु हदस्मदस्मदोर्मान्तावयवस्य यथासंख्यं त्वम इत्येतौ स्याताम् । त्वाम् । माम् । अतित्वाम् । अतिमाम् । अतित्वासु । अतिमासु । त्वदीयः । मदीयः । त्वत्पुत्रः । मत्पुत्रः । प्रत्ययोत्तरपदे चेति किम् । अधियुष्मद् । अध्यस्मद् । एकस्मिशिति किम् । युष्माकम् । अस्माकम् ॥११॥
.
•