________________
(१४)
१२।१।११। इति त्वमो स्यातामिति । ननु युवामावां वाऽचष्टे इति वाक्ये 'णिज्बहुलं' ।३।४।४२॥ इति णिचि क्विपि स्यादो परे युवाऽऽदेशौ कथं न भवत इति चेत्सत्य यदा युष्मदस्मदी द्वित्वे तदा न स्यादिः, यदा तु स्यादिस्तदा न द्वित्वे इति युवाऽऽवादेशी न भवनः । टाङ्यासि नित्यत्वात् त्वमाद्यादेशेभ्य: पूर्वमेव 'टाङयोसि'०।२।१७। इति मस्य यत्वे यष्या, अस्या, युष्यि, अस्यि, यष्योः, अस्योः । यदि पूर्व मकारस्य पश्चादकारस्याथवा पूर्व युष्मित्यादि-प्रकृतेः पश्चात्त्वेत्यादिप्रकृतेः प्राप्त्या यत्त्वस्यानित्यत्वमित्याश्रीयते तदा परत्वात्पूर्वं त्वमाद्यादेशेऽकारस्य यत्त्वे व्या, म्या, व्यि, म्यि, युट्योः, आव्योः । यदि 'सकृद गते । स्पद्ध यद्बाधितं.' इति न्याय आश्रीयते तदा त्वेन, मेन, युवयोः, आवयोः, त्वे, मे अत्राचष्टेरेव प्राधान्याधु . हमदो: सञोपर्सजनोभूतयो: सर्वादित्त्वस्यानिष्टत्वात्सर्वादिसम्बन्धित्वाभावाद्. 'ङस्मिन् ।१४।८। इति स्मिन्नादेशो न भवति । यदि 'क्विबथं प्रकृतिरेवाह' इति न्यायस्याश्रयणं तदा सर्वादिसम्बन्धित्वास्मिन्नादेशो भवत्येव । सन्निरात। लक्षणन्यायस्यानित्यताश्रयणेन त्वास्मिन् मास्मिन्नित्यपि । अत्र दे चिन्त्यते-प्रथमपक्ष एव ग्रन्थ कारस्याभिमतत्वं सूचित तत्र यदि शब्दा. नुपादानात् शेषेष सर्वत्र यदिशब्दप्रय गेण ग्रन्थकाररयानभिमतत्व चितमनन्तरोक्तस्मिन्नादेशे तु ' सादेः 'स्मैस्मातो' ।।४।७। इत्यस्य बृहद वृत्ती 'द्वियुष्मभवत्वस्मदा स्मायादयो न भवन्तीति सर्बविभक्त यादयः प्रयोजनम्' इत्युक्तत्वात्सुतरामनभितत्वम् । सिजस्ङङस् प्रत्यये तु परत्त्वात्त्वमहमाद्यादेशा एव भवन्ति । अनेन प्रक्रियागौरवं परिहतमन्यथाऽनेन मकारलोपेपि सिप्रत्ययादिना सहादेशे सर्वे पि प्रयोगास्सिध्येरनिति ।।९।।
मन्तस्य युवावो व्दयोः २।१।१०।
अर्थवृत्त्योहमदमदोर्मान्तावयवस्य स्यायौ परे यथासंख्यं युव आव इत्येतौ स्याताम् । युवाम् । आवाम् । अतियुवाम् । अत्यावाम् । अतियुवासु । अत्यावासु । मन्तस्येतिकिम । युवयोः । आवयो रित्यत्र दस्य यत्वम् यथा स्यात् । स्थाावित्येव । युवयोःपुत्रो युष्मत्पुत्रः ॥१०॥