________________
(१४३)
निवद्भावादिति वाच्यं प्रत्यासत्तिन्यायेन यस्मिन् प्रत्यये लुग्भवति तस्मिन्नेव प्रत्यये यत्कार्यमुक्तं तदा स्थानिवद्भावात्तन्न भवति अत्र तु 'त्रन्त्यस्वरादेः' 1७४;४३॥ इति सूत्रण णिचि लुक्, कार्य त्वभ्यमि प्रत्यय इति स्थानिवदभावाभाव त् । मोर्वा' ।२।१९। इति सूत्रस्यानवकाशत्वादवा स्थानिवत्त्वाभावात् । युष्मयतेरस्मयतेश्च सिद्धिस्त्वीदृशी युवा युष्मा वाऽऽचष्टे, आवामस्मान्वाऽऽचष्ट इति त्वां मां वाऽऽचष्ट इति तु न कार्य तथा सति णिचि त्वमौ०' (२।१।११। इति त्वमौ स्याताम् । युष्मयतेरस्मयतेश्च क्विपि युष्म अष्म अनयोरमीभ्यांसु परत्वात्त्व-माद्यादेशे कृते पश्चादात्त्वं त्वां, माँ, युवा; आवो युवाभ्याम् आवाभ्याम् । अयं भावः - 'स्पर्द्ध।७।४।११९॥ इति परत्वात् पूर्व त्वमाद्या-देश 'पगन्नत्यम्' इत्यपि न शब्दान्तरप्राप्त्याऽनित्यत्वात्, प्रथममा. त्त्वे तु मन्तत्वाभावात्त्वमादयो न स्युः । णिज्वाक्यावस्थादि बहुवचन विववृत्तो गौणमभवदिति त्वमादयो भवन्त्येव ॥६॥
१....
टाइयोसि यः ॥१७ टाङ योस्सु परेषु युष्मदस्मदोर्यः स्यात् । त्वया। मया । अतियुक्या। अत्यावया। त्वयि । मयि । युवयोः । आवयोः । टाङयोसीति किम् । त्वत् । मत् ।
___ओश्च ओश्च - ओसौ 'स्यादावसङ्खयेयः' ।३।११४१९। इत्येकशेष: टाश्च डिश्च ओसौ च इति कार्यमन्यथा डिसाहचर्यात्सप्तम्या एंव औसौ ग्रहणं स्यात् । नन्वोस्ग्रहणाभावेपि 'शेषे लुक् ।२।१८॥ इति दलोपे 'एबहुस्भोसि' १।४।४४। इत्येत्त्वे युवयोरित्यादि सिध्यदिति चेत्सत्यं ओस्ग्रहणाभावे णिच्यन्त्यस्वरादिलोपे 'मन्तस्य युवावी०' ।२।१।१७। इति युवाऽऽवादेशे 'शेषे लुक्' ।।१।८। इत्यल्लोपे 'युव्यो' इत्यादि न सिध्ये दित्योस्ग्रहणम् । त्वदिति 'अत्राङसेश्चाद्' ।२।१।१९। इति सिंप्रत्ययस्यादादेश एवं मदित्यत्रापि ॥७i
शेरे लुक् ।।१८। यस्मिन्नायौ कृतौ ततोऽन्यः शेषः तस्मिन् स्यादौ पैरें