________________
(१४०)
सम्बन्धिनि वा स्यादौ परे प्रवर्तते एवमग्रऽपि । स्त्रियामिति. श्र तत्वात् 'त्रिचतुरः' इत्यस्यैव विशेषणम् अन्यथाऽन्यसम्बन्धिनि अपि स्यादौ परे समु- . दायस्य स्त्रियां वर्तमानत्व भावादादेशो न स्यात् ॥१॥
ऋतो र स्वरेऽनि ।२।१।२ तिसृचतसृस्थस्य ऋतः स्वरादौ स्याो परे र: स्यात् । अनि,' ' नविषयादन्यत्र । तिस्रः, चतस्त्र, प्रियतिसो, प्रियचतसौ। स्वर इति किम् ? तिसृभिः, चतसृभिः । अनीति किम् ? तिसृणाम्, चतसजाम् ॥२॥
_ 'शसोऽता०।१।४।४९। 'अौं च ।२।४।३९। ऋतो डुर् ।१।४।३७। इति प्राप्तानां समानदार्घत्वाई रामपवादः । ननु 'ऋत:' इति कथनेन किम् ? तदभावेपि 'षष्ठ्यान्त्यस्य ।७।४।१०६। इति न्यायात् साध्यसिद्धिर्भविष्यतोति चेन्मैवम् 'ऋतः' इति कथनाभावे पूर्वसूत्रात्कायितया प्रतिपन्नस्य 'त्रिचतुरः' इत्यस्यानुवृत्तौ पूर्वसूत्रस्यापवाद: स्णत् । 'ऋत' इति कथने तु त्रिचतुर्मध्ये ऋकाराभावाद् 'तिसृचतसृ' इत्यादेशयोः सम्बन्धः । अनीति नकारः प्रत्ययरुप आगमरुपश्च ग्राह्यः । सामान्यनिर्देशेन आगमविषयस्यापि वर्जनं वेदितव्यं तेन 'प्रियतिसृणि' इत्यादावपि रत्वं न भवति । इदमेव 'अनि' इति नकारमात्रस्य वर्जनम् 'आगमात्सर्वादेशः' इति न्यायं ज्ञापयति । यद्ययं न्यायो न स्यात्तदा स्वरादौ स्यादौ परे 'अ देशादागमः' इति न्यायेन पूर्व नागमस्यैव भवनात्तद व्यवधाने च तिस्राद्यादेशाभवनात् रकारादेशप्राप्तिरेव नास्तीति । तिस्र इत्यादौ विधानसामर्थ्यान्न षत्वम् । तिसणामिति - दो| नाम्य० ॥१।४।४ । सूत्र तिसृचतसृवर्जनान्न दोघः ॥२॥
जराया जरस् वा ।२।१।३। स्वरावौ स्यादौ परे जराया जरस्वा स्यात् । जरसौ । जरसः । जरे जराः । अतिजरसौ अतिजरौ । अतिजरसम्, अतिज म् कुलम् ।।