________________
॥ अथ द्वितीयाध्याये प्रथमः पादः ॥
त्रिचतुरस्तिस- चतसृ-स्यादौ ।२।१।१। स्त्रियामिति वर्तते, स्यादौ परे स्त्रीवृत्त्योस्त्रिचतुरोर्ययासंख्यं तिसृ चतृस इत्येतो स्याताम् । तिनः चतस्रः । तिसृषु, जलसषु । प्रियतिसा, प्रिय-चतसा ना । प्रियतिस कुलम्, प्रियत्रि कुलम् । स्यादाविति किम् ? प्रियत्रिकः, प्रियचतुष्कः ॥१॥
त्रयश्च चत्वारश्च त्रिचतुर्, तस्य । तिसा च चतसा च तिसचतस । सिरादिर्यस्य तस्मिन् । तिस्रः, चतस्रः- अत्र जसि ‘अनेकवर्णः सर्वस्य ७।४।१०७। सूत्रात् त्रिचतुरो: तिसचतस्रादेशी, तत: 'अङ च ।१।४।३९। सूत्रादाप्तो, 'ऋतोर: स्वरेऽनि ।२।१२। सूत्र द्र: । शसि तु 'शसोऽता सश्च० १॥४॥४९॥ सूत्राद् दीर्घ प्राप्ते 'ऋतो र:०।२।१।२। सूत्राद् र: । प्रिया. स्तिस्रश्चतस्रो वा यस्य पुरुषस्य कुलस्य वा लुबन्तरङ्ग भ्यः' इति न्ययेन पूर्व विभक्तिलोपे तत: समासाद् या विभक्तिस्तस्यां परत: निर्दिश्यमानस्यैवादेशा भवन्तीति न्यायेन तिस्रादेशः, पूर्वस्य पात: स्त्री० ।३।२।४९। सूत्रात पुवद्भावः, जहत्स्वाथ - वृतिपक्ष' 'भूतपूर्वकस्तद्वदुपचारः' इति न्यायेन स्त्रियांवर्तमानता।'असिद्ध बहिरङ्गमन्तरङ्ग इति न्यायादन्तरङ्ग कचिकर्तव्ये विभक्ति नमित्तकत्वेन बहिरङ्गत्वात् तिसचतस्रादेशस्यासिद्धत्वान्न ऋ.. नित्य०।७।३१७१। सूत्रान्न ऋदन्तलक्षण: कच् 'ऋदु० ।१।४।८४। सूत्रण सेमः, कल बे. 'नामिनो लुग्वा ।१।४।६। सूत्रात् सेलुचि तस्य च स्थानिवद्भ वात् तिस्रादेशः, 'अनत:०।१।४।५९। सूत्रात् लुप स्थानिवद्भावाभावान तिस्रादेश: । प्रियास्तिस्रश्चतस्रो वा यस्यासी प्रियत्रिकः, प्रियचतुष्कः, 'शेषाद वा ।७।३।१७५। सूत्रात् कच् तेन व्यवहितत्वान्न आदेश: । अदेमवधेयम् - 'त्रिचतुरः' इत्यनेन स्याद्याक्षिप्त नाम विशष्यते तेन तदन्त विधिः, केवलयोस्तु 'आद्यनावदेकस्मिन्' इति न्यायात् भवति । इदं सून्नं तत्सम्बन्धिन्य