________________
(१३५)
यथा स्यात् नान्यत्र दण्डिनो, दण्डिनः, दण्डिनमित्यादी । एषामेव शिस्यो - रिनि विपरीत नियमस्तु न कार्यः वंश्यज्यायो | ६ | १|३ | इत्यत्र युवेति 'पराणि काना० | ३ | ३ | २० | इत्यत्र पराणीति निर्देशात् । 'अनिनस्मिन्ग्रहणान्यर्थ'वताऽनर्थकेन च तदन्तविधि प्रयोजयन्ति' इति न्यायाद् दण्डोऽ स्यास्तीति 'अतोऽनेकस्वरात्' | ७|६| इति सार्थके इनि दण्डी, तपोऽस्यास्तीति' अस्तपोमायामेधा० | ७|२| ४७ | इति विनि तपस्वी, उभयत्रापि 'इन्हन्पूषा ० |१|४|८७ | इति दीर्घः । स्रग्वीनि 'अस्तपोमाया० | ७ | २|४७ | इति विन् ।
हानि - इत्युदाहरणं हन्तेः केवलस्य क्विबन्तस्य दर्शनाभावात् । बहुपुषाणि स्वप्रधानायां वृत्तो शेरभावात् उपसर्जन भूतमुदाहृतम् एव स्वर्य - माणि । वृत्रहणी - सञ्ज्ञायां पूर्वपदस्थान्ना० | २|३| ६४ | इत्यनेनासंज्ञायां तु 'कवगै कस्वरवत' | २|३|७६ । इति णत्वम् ॥ ८७॥
अप: 1१1४1८८1
अपः स्वरस्य शेषे घुटि परे दीर्घः स्यात् । आपः । स्वापो । ८८ ।
अपशब्दस्य बह वर्थवाचित्वादेकवचन द्विवचनासम्भवे बहुवचनमुदाहृतम् । स्वापो - शोभना आपो ययोस्तौ स्वापी ॥८८॥
नि वा १४८९४
अपः स्वरस्य नागमे सति घुटि परे दीर्घो वा स्यात् । स्वाम्पि | 'स्वाम्पि । बह वापि । बह वम्पि ।८९ |
हापि - 'नपुंसकस्य शिः | १|४|५५ ॥ समासान्तागमज्ञापकगणननिदिष्टान्य नित्या नि' इति समासान्तविधेरनित्यत्वात् ऋक्पथ्यपो०' |७|३|७६ । इति समासान्तो न भवति ||२९|| 'घुटां प्राक्' | १|४|६६ | इति नागम:, 'म्नां धुड्वर्गे० | १|३|३९| इति मकारोऽनेन पक्ष े दीर्घत्वम् ॥८९॥
अभ्वादेरत्वसः सौ |१|४|१०|