________________
( १३४ )
नि दीर्घी १४८५
शेषे घुटि परे यो नस्तस्मिन्परे स्वरस्य दीर्घः स्यात् । राजा । राजानो । राजानः । राजानम् । वनानि । व तृणि। शेष इत्येव । हे राजन् ॥८५॥
राजेति - स्यादिविधौ कर्तव्ये न लोपस्यासत्त्वात्पूर्वं 'नाम्नो नोनह नः | २|१|९१ | इति न प्रवर्तते । 'स्वरस्य हस्वदीर्घप्लुता:' इति न्यायादाह स्वरस्येति ॥ ८५ ॥
9
ठस्महतोः । १।४।८६ ।
सन्तस्य महतश्च स्वरस्य शेषे घुटि परे दीर्घः स्यातृ । श्रयान् । श्र यांसी । महान् । महान्तौ ॥८६॥
अपरे तु अत्र औणादिको 'द्र हिवृहि० । उणा० ८८४ । इत्यनेन कतृप्रत्ययान्तो व्युत्पन्नोऽव्युत्पन्नो वा महच्छब्दो ग्राह्यः यस्तु' शत्रानशा १५/२/२०१ इति शत्रन्तस्तस्य महन्नित्येव, न त्वनेन दीर्घः' 'लक्षणप्रतिपदोक्तयो: ०' इति न्यायात् लाक्षणिकस्य शतृप्रत्ययान्तस्य ग्रहणं न भवति इत्याहुः ॥८६॥
इन्हपूषार्यम्ण शिस्योः | १|४|८७ |
इन्नन्तस्य हनादेश्च स्वरस्य शिस्योरेव परयोर्दीर्घः स्यात् । इण्डोनि । स्रग्वीणि । दण्डी । स्रग्वी । भ्रूणहानि । भ्रूणहा । बहुपूवाणि । पूषा । स्वर्यमाणि । अर्यमा । शिस्योरेवेति किम् ? दण्डि - नौ, वृत्रहणी, पूषणौ । अर्थमणौ ॥ ८७॥
नि दीर्घः | १|४|८| इति सिद्ध े नियमार्थं वचनम् एषां शि-स्योरेव