________________
इह शेषे घुटि वादेश विधानात् पूर्वत्रामन्त्र्ये साविति सम्बध्यते ।
॥८२॥
सरुयुरितोऽशावैत् ।१।४।८३॥ सख्युरिदन्तस्य शिवजें शेष घुटि परे ऐत् स्यात । सखायौ । सखायः सखायम् । इति इति किम ? सख्यो स्त्रियौ । अशाविति किम ? अतिसखीनि । शेष इत्येघ । हे सखे ।८३।
ननु कृतम् ‘इतः' इति ग्रहणेन तदन्तरेणापि सखिशब्दनिर्देशात् सखीशब्दस्य ङीप्रत्ययान्तस्य सखीशब्दस्य क्यन्क्विबन्तस्य चोभयोरपि प्राप्यभावादिति चेत् अत्रोच्यते इदमेव व्यर्थ सत् 'नामंग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति ‘एकदेशविकृतमनन्यवदिति न्यायौ सूचयति । न च 'स्पद्ध' १७।४।११९। इति परत्वात्पूर्व मेकारादेशे पश्चात् 'क्लिबे' ।२।४।९२। इति ह्रस्वत्वे ततो मागमे दीर्घत्वे च न कश्चिद्दोष इति किमर्थ शिवर्जनमिति वाच्यम् 'असिद्ध बहिरङ्गमन्तरङ्ग' इति न्यायात् घुििनमित्तैकारस्य बहिरङ्ग वात् ह्रस्वत्वे कर्तव्येऽसिद्धत्वात् । ननु कृताकृतप्रसङ्गित्वेन नित्यत्वात् 'परान्नित्यम्' इत्यथवा 'आदेशादागमः' इति न्यायात्पूर्व नागमः पश्चाद् व्यवधानादैकारो न भविष्यतीति किं शिवर्जनेनेति चेत्सत्यं 'स्वाङ्गमव्यवधायि' इति प्रकृतिभक्तत्वेनाव्यवधायकत्वादकारोगि निरय इति द्वयोनित्ययोः परत्वादैकार: स्यादिति शिवर्जनम् ॥८३।।
ऋदुशनस्पुरुदंशोsनेहसश्चः सः ।१।४।८४। ऋदन्तादुशनसादेः सख्युरितश्च परस्य शेषस्य सेंडः स्यात् । पिता, अतिपिता । कर्ता । उशना । पुरुर्दशी । अहा । सखा ।४।
ऋदन्तादित्यादि- ऋकारान्तस्य 'अौं च' ।१।४।३९। इत्यरि प्राप्ते 'तृस्वस०' ।१।४।३८॥ इत्यारि च प्राप्ते त्रयाणामुशनसादिशब्दाना "दीर्घङयाब ०" ११४१३५। इति सिलोपे, अश्वादेरत्वसः सौ ।१।४।९०। इति दीर्घत्वे प्राप्ते 'सो रुः ।२।११७२। इति रुत्वे च प्राप्ते 'डा' आदेशः ॥८४॥