________________
(१३२)
वोशनसो नश्चामन्त्रये सौ।१।४।८। आमन्त्र्यवृत्त रुशनसो न-लुको सौ परे वा स्याताम् । हे उशनन, हे उशन, हे उशनः । आमन्त्र्य इति किम् ? उशना ८०। - उशनन इत्यादि-प्रकृतसूत्रेण वा नलोपयोः कृतयोः 'दीर्घङ याब्० ।१।४।४५। इत 'अदेतः स्यमोलुक् ।१।४।४४। इति लुकि तदभावपक्षे सिलो- ' परुत्वादौ च त्रैरुप्यं सिद्धम् । “सर्वेभ्यो लोपो बलीयान्' इति न्यायाश्रयणे तु सेलुचि स्थानिवद्भावेन वा नलुकोः कृतयोः हे उशन हे उशन हे उशनः इति त्रैरूप्यम् । उशना- आमन्त्र्याभावे तु 'ऋदु०।११४१८४। सूत्रण सेर्डाः ॥८॥
उतोऽनइच्चतुरो वा ।१४।८१॥ .. आमन्यार्थवृत्त्योरनडुच्चतुरोरुतः सौ परे वः स्यात् । हे अनड्वन् हे प्रियचत्वः । हे अतिचत्वः ।।१।।
.'वाः शेषे' ।१।४१८२। इत्युत्तरसूत्रे शेषग्रहणादामन्त्र्यसिरेवानुवर्तते न तु निमित्तविशेषोपादानाभावाद् 'घुटि' इति । 'नामंग्रहणे लिङ्गविशिष्टस्यापि ग्रहणण्' इति न्यायेन स्त्रीलिङ्गविशिष्टस्य ग्रहणे प्राप्तेऽपि हे अनडुहि । इत्यत्र "गौरादिभ्यः मुख्यान्डीः ।२।४।१९। इति गौरादिनिपातनात् वत्वाभावः ‘एवमुत्तरसूत्रेऽपि । हे अनड्वन्नित्यादि-अनडुहः सौ ।१।४।७२। इति नोऽन्तः, 'प्रियः ।३।१।१५७। इति पूर्वनिपातः, अन्यत्र तु 'विशेषण-सर्वादिसङख्यं । ।३।१।१५०। इति चतुःशब्दस्य पूर्व निपातो भवति । चतुःशब्दस्यार्थप्रधानत्वादेकस्यामन्त्रणासम्भवे समासे उपसर्जनीभूतः उदाहृतः ।।८१॥
वाः शेषे ।१।४।८२॥ आमन्त्र्यविहितात्सेरन्यो घुटशेषस्त-स्मिन्परे अनडुच्चतुरोरुतो वाः स्यात् । अनड्वान् । अनड्वाही । प्रियचत्वाः । प्रियचत्वारी । शेष इति किम् ? हे अनड्वन् । हे प्रियचत्वः ॥८२॥