________________
(१३१)
थो न्थ् ।१।४।७८॥ पथिन्मथिनोनन्तियोस्थस्य घुटि परे न्य् स्यात् । तथैवोदाहृतम्
॥७८
न्थ् इत्यनेकवर्णत्वात् 'अनेकवर्णः सर्वस्य' ।७।४।१०७। इति सर्वस्य प्राप्तौ स्थानिविशेषार्थम्, ऋभुक्षिनिवृत्त्यर्थ च 'थ' इति स्थानिन उपदानम् । ॥७८॥ . ...
इन् डीस्वरे लुक।१।४७९। पथ्यादीनां नान्तानां यामघुट् स्वरादौ च स्याती परे इन लुक स्यात् । सुपथी स्त्री कुले वा । पथः । सुमथी स्त्री कुले वा। मथः अनुभुक्षी सेना कुले वा । ऋभुक्षः ॥७९॥
अघुट्स्वरादौ चेति, छीसाहचर्यात् 'अबुष्टि' इति विशेषणं ज्ञ यम् । स्याधिकारस्तु अस्त्येव । ङीग्रहण यर्थ्यप्रसङ्गाच्चा यामपि । निमित्तविशेषानुपादाने 'घुटि' इत्यधिकारः अत्र तु 'स्वर' इति निमित्तविशेषोपादानात् घुटि तु पथ्यादीनामिनो विशेषविध्याकान्तत्वात् अघुट्स्वर इति निश्चीयते। इन् लुक् चेति अभेदनिर्देशः सर्वादेशार्थः । अन्यथा षष्ठ्याऽन्त्यस्य ७४।१०६ इति परिभाषा प्रवर्तेत । अनियमे नियमकारिणी परिभाषा, . उक्त च-एकदेशे स्थिता, शास्त्रभवने याति दीपताम् । . परितो व्यापृतां भाषा, परिभाषां प्रचक्षते ॥ सुपथीत्यादि-शोभनः पन्थाः यस्या ययोर्वा 'ऋक्पू:पथ्य' • ७।३७६। इति समासान्तः 'पूजास्वते:०।७।३।७२। इति प्रतिषेधात् न भवति । 'उणादयोऽ व्युत्पन्नानि नामानि' इत्यव्युत्पत्तिपक्षाश्रयणे इन्नन्तत्वाभावात् 'इनः कच् ।७। ३।१७०। इत्यपि न भवति । व्युत्पत्तिपक्षे 'सुभ्र वादिभ्यः ।७।३।१८२ इति निषेधान्न भवति । नान्तत्वात् 'स्त्रियां नृतो० ॥२॥४१॥ इति ङीप्रत्ययः, कुलविशेषणत्वे 'औरीः।१।४।५६। इतीकारेवाऽनेनेनो लुक् एवं सुमथीत्यादावपि ज्ञेयम्, न विद्यते ऋभुक्षाः इन्द्रो यस्याः ययोर्वा १७९
: .