________________
(१२४)
मान'नां ग्रहणं भवति । तेन दधिमतिक्रान्तस्तेनातिदध्ना, अनोऽस्य ।।१। १०८। इत्यल्लोपः । "दना अतिदधना" इत्यादौ परमपि नागममनादेशो बाधते ॥६३॥
अनाम्स्वरे नोन्तः ।१।४।६४। नाम्यन्तस्य नपुंसकस्याम्वर्जे स्यादौ स्वरे परे नोऽन्तः स्यात् । बारिणी । वारिणः । कर्तृणी । कर्त णः । प्रियतिसृणः । अनामिति किम् ? वारीणाम् । स्वर इति किम् ? हे वारे । स्यादावित्येवतौम्बु चूर्णम् ।६४।
____ अनाम् चासो स्वरश्च अनाम्स्वर: तस्मिन् । अथाम्वर्जनात् पर्युदासात्स्वरे लब्धे स्वरग्रहणं टादावित्यधिकारनिवृत्यर्थम्। ...
प्रियतिसणः- अत्र परत्वास्तिनादेशे सति नोऽतः । ननु पूर्व नागमेऽपि 'स्वाङ्गमव्यवधापि' इति न्यायेन तिस्रादेशः स्यादिति चेत्सत्यम् अवयवेनावयवस्य व्यवधानं भवति न त्ववयवेन अवयविनः यथा देवदत्तस्य श्मश्रु. न दृष्टं हस्तेन व्यवहितत्वात्, न तु कोऽपीत्थं वदति 'देवदत्तो न दृष्ट: हस्तेन व्यवहितत्वात् तथावदत्रापि तिस्रादेशस्त्रिशब्दस्यावयवस्य कर्तव्य: न तु प्रियत्रिशब्दस्यावयविनोऽतः व्यवघानात्तिस्रादेशो न स्यादिति । वारीणाम - नागमा भावोऽत्र । 'दीर्घो नाम्यति ।१।४।४७। इति दीर्घः । तौम्बुखं चूर्णम्तुम्बुरुणो वृक्षस्य विकार: 'प्राप्यौषधि० ।६।२।३१। इत्यण् तस्य लुप् विकारे पुनरण, अथवा तुम्बुरुणो वृक्षस्य विकारश्चूर्णम् एक स्मिन्नणि वा 'अस्वयम्भु. वाऽव् ७४।७०। इति पुस्त्रयोः सावकाशत्वात् नपुसके विशेषविधानादिद प्राप्नोतीति स्यादावित्यधिकारानिवृत्तम् ।६४।
-
स्वराच्छो ।१।४।६५।
शौ परे स्वरान्तान्नपुंसकात्परो नोन्तः स्यात् । कुण्डानि ।. स्वरादिति किम् ? चत्वारि ।६५।