________________
(१२५)
कान्तस्य तु न सके हस्वविधानात्स्थिति रेव नास्तीति 'अतः इत्येव सिद्ध े स्वरग्रहणमुत्तरार्थम् । कुण्डानि - 'अनाम्बरे० | १ |४| ६४ | इति शौ नागमः । चत्वारि - चतुर्· शब्दाच्छो 'वाः शेषे | १|४|८२ । इति वादेश:
॥६५॥
छुटां प्राक् (१।४।६६ ।
स्वरात्परा या धुड्जातिस्तदन्तस्य नपुंसकस्य शो परे धुड़भ्य एव प्राग् नोऽन्तः स्यात् । पयांसि । अतिजरांसि । कष्टतङिक्ष । स्वरादित्येव - गोमन्ति ॥ ६६॥
1
घुटा मिति - प्रामित्यनेन सम्बन्धाभावात् ' प्रभृत्यन्यार्थ० ।२।२।७५। इति न पञ्चमी । घुड़भ्य एव प्रागिति प्रागित्यस्य दिक्शब्दत्वात्तद्द्यां गे पञ्चमीविज्ञानादन्यस्यासम्भवात् घुट एव विज्ञायते । पयांसि पयस् 'नपु' - सकस्य शिः | १|४|५५ । इति जसः शिरादेशोऽनेन नागमः 'न्स्महतोः | १|४|८६ इति दीर्घत्वम् ' शिड्ढेऽनुस्वारः । | १|३|४०| इत्यनुस्वारः । अतिजरांसि - अतिक्रान्ता जरा येस्तानि जराया जरस् वा | २|१|३| सूत्राद् 'एकदेश विकृतमनन्यवत्' इति न्यायेन जरसादेशः, शिः, अनेन नोन्तः, 'न्स्महतोः | ११४८६। इति दीर्घः । घुटामिति बहुवचनं जातिपरिग्रहार्थं तेन काष्टतङिक्ष - अत्र क् ष् इति अनेकघुट्सद्भावेऽपि जातिपरिग्रहालोन्तः, 'म्नां 'धुड्वर्गेο' | १|३|३९| इति ङकारः । ननु बहुवचनोपादानाभावेपि वर्णग्रहणे जातिग्रहणमिति न्यायात्सेत्स्यतीति बहुवचनोपादानं व्यर्थमिति चेत्सत्यं जातिव्यक्तिपक्षाभ्यां शास्त्र प्रवर्तते तत्र व्यक्तिपक्षा श्रयणेन प्राप्तस्यैकघुद्ग्रहण् स्य बाधनायात्र जातिपक्ष एव आश्रयितव्य इति ज्ञापनार्थम् । गोमन्ति - गाव: सन्ति येषु तानि गोमन्ति कुलानि 'तदस्या० । ७ । २ । २१ । इति मतुः 'ऋदुदिन : | १/४/७० इत परत्वान्नागमः पश्चात् 'गोमन्त् इ' इति स्थिते स्वगत्तरत्वाभावानं न्त' न भवति, तकारस्तु न स्वरात्परः यस्तु स्व- रात्परः स न घुट् इति अनेन नोन्सो न भवति ||६६ ||
S
ल वा |१|४|६७
·