________________
( १२३ )
नामिन इति नपुंसकस्य विशेषणं तथा 'अन्यत' इत्यपि 'अर्थव 'शाद्विभक्तिविपरिणाम:' इति न्यायेन प्रथमान्ततयाऽनुवर्तते नाम्यन्त इति पुति - परार्थे प्रयुज्यमानः शब्दो वतं विनाऽपि वदर्थ गमयति' इति न्यायेन परार्थे नपुंसके प्रयुज्यमानः पुमान् शब्दः । यथा पुंसि "अनाम्स्वरे० " | १|४६४ | इति क्लीवे' | २|४| ९७| इति नागमहत्वौ न भवतस्तथात्रापि न भवतः इत्यर्थः । ग्रामण्या- ग्रामणोशब्दशत् पुंवद्भावान्नाग महस्वाभावें 'क्विवृत्ते' | २|१|५८ | इति यत्वम् । पुंवद्भावाभावपक्षे तु ह्रस्वत्वं नाग'मश्च । ननु 'ग्रामजिना' इत्यत्र पूर्व' 'क्विन्नृत्ते सुधियस्तो | २|११५८ | इति यत्वं कथं न भवतीति चेत्सत्यम् इदुनोऽस्त्रे दूत् | १|४| २१ | इत्यत्र स्त्रीवर्जनेन परमपि इयुव-यत्वादिकार्यम् इदुवाश्रितेन बाध्यते इति ज्ञापित्वात् यद्वा 'आदेशादागमः इति न्यायाद् यत्व बाधित्वा नागमः । अन्यत इति द्विधा लिङ्गव्यवस्था केषांचिच्छन्दानां स्वत एव लिङ्गम् यथा दविमध्यादिजातिशब्दानाम् केषां चिदन्यतो विशेष्यात् यथा गुणक्रिपाद्रव्यसम्बन्धनिमित्तानां पट्वादिशब्दानाम् पटुः पुमान्, पट्वी स्त्री, पटु कुलमिति एषां स्वतो लिङ्ग नास्ति परन्तु विशेष्यवशादेवं । पीलुशब्दस्य जातिशब्दत्वान्न विशेष्यवशानपुंसकत्वमिति पुंवद्भावो न भवति पीलुवृक्षः पोलो फलम् " प्राण्यो० ।६।२।३१। इत्यण् ‘फले’ ।६।२।५८। इत्यण्लोपः ।।६२।।
दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् (१।४।६३|
एषां नपुंसकानां नाम्यन्तानामन्तस्य टादौ स्वरे परे अन् स्यात् asar | अतिदध्ना | अस्थमा । अत्यस्थता । सक्थ्ना । अतिसक्थना । अक्ष्णा अत्यक्ष्णा ६३
'दध्यस्थिसक्थ्यक्ष्णः' इत्यन्तस्य स्थानिनो विशेषणमतः सामान्यं परत्वमात्रविज्ञानात्तत्सम्बन्धिन्यसम्बन्धिनि वा टादौ स्वरे परेऽनादेशभावात् अतिदध्नेत्यादि सिद्धम् । नपुंसकार्थ विशिष्टैर्दध्यादिभिः स्याद्याक्षिप्तं नाम विशिष्यते तेन दध्याद्यन्तस्य नाम्नोऽन् भवति केवलस्य तु व्यपदेशिवद्भावात् । 'श्रुतानुमितयोः श्रौतो विधिर्बलीयान् ' इति न्यायेन श्रुतत्वात् 'नपुं'सकस्य' इत्यनेन दध्यादय एव विशिष्यन्ते तेन तदन्तानामनपुरं सकेऽपि वर्त