________________
(११)
४६। इति लपे विशेषाभावात् न । चामोऽकारोच्चारणं सर्वादेशार्थमिति वाच्यं 'प्रधयस्य' ।७।४।१०८ इत्येव सिद्धत्वादिति चेत्सत्यममोऽकारोच्चारणं जम्मादेशार्थं तेन । जरामतिक्रान्तं कुलम् अतिजरसमिति सिद्धम् । हे कुण्ड - "अदेतः स्यमालुक् ।१।४।४४। इत्यमो लुक् ॥५७।।
पञ्चतोऽन्यादेरनेकतरस्यः दः।१।४।५८॥ पञ्चपरिमाणस्य नपुंसकस्यान्यादेः स्यमोदः स्यात् । एकतरवर्जम् । अन्यत् । अन्यतरत् । इतरत् । कतरत् । कतमत् । अनेकतरस्येति किम् ? एकतरम् ।५८१
. पञ्च सई या परिमाणमस्य “पञ्चद्दशद्वर्गे वा ।६।४।१७५॥ इति डत्यत्ययः । सर्वाद्यन्तर्गतान्यादयः पञ्च "अन्य अन्यतर, इनर, डतर डतम इति । अस्मिन् तिस्रः प्रकृतयः, द्वौ प्रत्ययो ‘प्रत्ययः प्रकृत्यादे: ।७।४।११५॥ इति प्रत्ययग्रहणेन तदन्त विज्ञानाद् कतरकतमादेग्रहणं भवति । द इत्यत्र अकार उच्चारणार्थः ।।५८॥
अनतो लुप् ।१।४।५९। अनकारान्तस्य नपुंसकस्य स्यमोलुप स्यात् । कर्तृ । पयः ।५९।.
- अत्र वत' इति स्वरान्तस्य स्यमोलुप: उदाहरणं 'पयः' इति व्यजनान्तस्य स्यमालुप उदाहरणम् । ननु 'अनत:' इति कथं ? न च 'अनत:' 'इत्यस्याभावे 'कुण्डम्' इत्यत्रापि लोप: स्यादिति वाच्यम् 'अत: स्यमाऽम्' ।।४।५। इति बाधकादिति चेत्सत्यम् 'अनत:' इत्यस्याभावे पूवसूत्राद् 'अन्यादेरित्यनुवर्तेत । ननु अन्यादेः' इत्यस्याभीष्टौ पूर्वसूत्रेणकयोगमेव कुर्यात् इति चेन्मैवं पूर्व मेकतरजितस्यात्र तु एकतरस्यापोति पृथग्योगस्य 'साफल्यात् । हे कर्तृ इत्यत्र परत्वात् प्रथम सेलोपे 'ह्रस्वस्य गुण: ।१।४।४११ इति गुणः कस्मान्न भवनोति चेत्सत्यम् लुचमकृत्या लुप्करणं स्यमोः 'स्थानी०।७।४।१०९। सूत्रात्, स्थानिवद्भावेन यत्कार्यं तस्य ‘लुप्यम्वृ० ।। ४।११३॥ इति प्रतिषेधार्थं तेन यत्, तत् इत् पत्र 'श्रा द्वरः ।२।१।४१॥ इति त्यदाद्यत्वं न भवति ॥ ५९॥ . , . . . . . .