________________
हुहूः । द्विस्वरेति किम् । हे अम्बाडे । आप इत्येव । हे मातः ॥४३॥
पृषोदशदित्वात् जहातेस्प्रत्यये द्विवचनादौ च हूहूः ॥४३॥
अदेतः स्यमोलुक ।१॥४॥४४॥ अदन्ताच्च आमन्त्र्यवृत्तेः परस्य सेरमश्च लुक स्यात् । हे देव । उपकुम्भ । हे अतिहे ॥४४॥ - स्यादेशत्वेनैवामोऽपि लुचि सिद्धायां पृथग्वचनमन्यस्याऽदेशस्य लुगभावार्थम् । तेन 'पञ्चतोऽन्यादे०।१।४।५८॥ इत्यादेशे सति हे कतरद् इत्यादौ लुग् न भवति । कुम्भस्य समीपम् उपकुम्भम् 'अमव्ययीभावस्यातो.' १३।२।२। इत्यम्, अनेन लोपः। हिनोतीति विचि हेः हयमतिक्रान्तः अतिहे: तत्सम्बोधने अतिहे ॥४४॥ ..
दीघड्याव्यञ्जनात्सेः ।१।४।४५। , दीर्घङ याबन्ताभ्यां व्यञ्जनाच्च परस्य सेलुक स्यात् । नदी। माला । राजा । दोघेति किम् ? निकौशाम्बिः । अतिखट्वः ॥४५॥
व्यञ्जनाच्च 'विशेषणमन्त:' ।७।४।११३। सूत्रात् व्यञ्जनान्ताच्चेति भावः । 'पदस्य' ।२।१।८९। इति सिद्ध व्यञ्जन ग्रहणं 'राजा' इत्यादौ सिलो. पार्थम् अन्यथा 'नाम्नो नोऽनह नः ।२।१९१। इति परकार्ये कर्तव्ये 'पदस्य' ।२।१।८९। इत्यस्यासत्त्वात् पूर्व नलोपे संयोगान्तत्वा - भावात् 'पदस्य' १२।१२८९। इत्यस्याप्रवृत्त: सेर्लोपो न स्यात् ॥४५॥
समानादमो तः ।१।४।४६।