________________
( ११४ )
न्नानां संज्ञाशब्दानां तृशब्दस्य ग्रहणं न भवतीति तेषां पृथगुपादानम् इदमेव ज्ञापकम् 'अर्थवद्ग्रहणे नानर्थकस्य ग्रहणं भवति' इति, उणादीनामपि व्यु - त्पत्तिपक्ष तु तृग्रहणेनैव सिद्ध नप्त्रादिग्रहणं नियमार्थम्, तेनान्येषामौणादिकानां न भवति पितरौ भ्रातरी, मातरी, जामातगे । तृच्तृन्म्रत्ययान्तस्य स्वस्रादीनां च सम्बन्धिनः ऋकारस्य स्थाने तत्सम्बन्धन्यसम्बन्धिनि वा घुट परे आर्, भवतीति सूत्रार्थस्तेनाति कर्तारमित्याद्यपि भवति । नन्वत्र शो घुटि निमित्त कथं नोदाहृनम् । न च शौ वुटे 'स्वराच्छौ | ११४६५ इति नागमेन व्यवधानान्न प्राप्नोतीति वाच्यं 'स्वाङ्गमव्यवधा 'य' इति न्यायाद् व्यवधानं न भविष्यतीति चेत्सत्यमवयवेनावयवयवस्य ॠल्लक्षणस्यं व्यवधानं भवतीति न प्रदर्शितम् ॥३८॥
अर्डों च |१|४|३९|
ऋतो ङौ घुटि च परे अर् स्यात् । नरि । नरम् १३९ ।
'चकारो यस्मात्परस्तत्सजातीयमेव समुच्चिनीति' इति न्यायाचचकारो ङिसजातीयं प्रत्यायत्त रनन्तरोक्तं निमित्तमेव समुच्चिनोत्यत आह ङो घुटि चेति । ननु कर्ता णि कुले, कतृ ' णि कुलानि' इत्यत्र घटि शो परे अर भवति नवेति चेन्न भवति 'नरि, कुण्डानीत्यत्रो भयो: सावकाशत्वेन परवानागम एव भवति, तस्मिन् सति व्यवधानान्न भवति ||३९||
:C
मातुर्मातः पुत्रे ऽहें सिनामन्तये | १|४|४०|
मातुरामध्ये पुत्र वर्तमानस्य सिना सह मातः स्यात् । अहें प्रशं सायाम् । हे गार्गीमात । पुत्र इति किम् ? हे मातः, हे गार्गीमातृके वत्से । अहं इति किम् ? अरे गार्गीमातृकः |४०|
सामर्थ्याद्बहुव्रीहिसमासे भवत्यन्यथा मातृशब्दस्य पुत्रे वर्तमानवाभावात् । बहुव्रीहौ तु ऋन्नित्य | ७|३|२७१ | इति कच्प्राप्तः परन्तु विशेपविहितत्वादपवादत्वादयं प्रवर्तते । गार्गीमात- श्लाध्यया मात्रा पुत्रः उलाघ्यते
1