________________
(१०८)
।१।४।५। इतीनादेशेन भाव्यमिति चेन्न 'प्रागिनात्' ।२।१।४८। इति वचनात्पू- . व मेवो वं पश्चान्नादेश इति ॥२४॥
डिडौँ ।१।४।२५ इदुदन्तात्परो ङिडौ: स्यात् । मुनौ । धेनौ । अदिदित्येव । बुद्ध : याम् ॥२५॥ ... डिडौं रित्यभेदनिर्देशश्चतुर्थंकवचनशङ्कानिरासार्थः । डकारोऽन्त्यस्वरादिलोपार्थः ॥२५॥
केवलसरिखपतरोः ।।४।२६ . केवलसखिपतिभ्यामिदन्ताभ्यां परो डिरौः स्यात् । सख्यो । पत्यौ। इत इत्येव-सखायमिच्छति । सख्यि, पत्यि । केवलेति किम् ? प्रियसखौ, नरपतौ ॥२६॥ केवलग्रहणेन 'ग्रहणवता नाम्ना न तदन्तविधिः' इति न्यायस्यानित्यताज्ञापिताऽन्यथा केवलग्रहणं व्यर्थ स्यात् । सख्यि-नन्वत्र 'स्थानीवा०।७।४।१०९। इति न्यायात् क्विप: स्थानित्वे सति 'प्वो: प्वय० ।४।४।१२१॥ इति यलोपः कस्मान्न भवति ? 'असिद्ध बहिरङ्गमन्तरङ्ग' इत्यन्तरङ्ग विबाश्रिते कार्ये कर्तव्ये बहिरङ्गस्य यत्वस्यासिद्धत्वात् ॥१२६॥
न ना डिदेत् ।१।४।२७ केवलसखिपतेर्यष्टाया ना डिति परे एच्चोंक्तः स न स्यात् । सख्या।. पत्या। सख्ये । पत्ये । सख्युः, पत्युः आगतम् स्वम् वा । सख्यो पत्यौ । डिदिति किम् ? पतयः ।२७। .. .