________________
. ।२२।
‘यथासङ्खयमनुदेशः समानाम्' इति न्यायात् 'आसन्नः ॥७।४।१२० । इति वेकारस्यैकारः, उकारस्यौकारः ॥२२॥
(१०७)
ङित्यदिति |१|४|२३|
अदिति ङिति स्यादौ परे इदुदन्तयोर्यथासंख्य मेदोतौ स्याताम् । अतिस्त्रये । साधवे । अतिस्त्र: साधोरागतं स्वं वा । अदितीति किम् ? बुद्ध गाः, धेन्वाः । स्वादावित्येव शुची स्त्री ॥ २३ ॥
ननु दायाद्यादेशानां स्त्रीत्वविशिष्टेकारोकारापेक्षत्वेन बहिरङ्गवम् इकारोकारमात्रापेक्षत्वेनान्तरङ्गत्वात्पूर्वमेव एदोती आदेश पश्चादिदुन्तत्वाभावात् वर्णविधित्वाच्च स्थानित्वाभावात् न च तदन्तादेशविधानादवर्णवधित्वम्, अप्रधानेऽपि वर्णविधि प्रतिषेधात्, एवं तर्हि निखकाशप्वाद् पूर्वमेवदायाद्यादेशाः अतः अदितीति वर्जनम् । न च 'सन्निपालक्षणो विधिरनिमित्तं तद्विघातस्य' इति न्यायाद् इदुत्सन्निपातेन जायमानत्वात्तद्विघाताय न प्रभवेदिति वाच्यं तथा सति यत्वमपि न स्याद् अतः एतदेव 'अदिति' इति वर्जनं ज्ञापयति वर्णविधावयं न्यायो नोपतिष्ठते इति तेन दायाद्यादेशेषु कृतेषु दोती न भवतः यत्वं तु भवत्येव । आगतं स्वं वेति - पञ्चमी षष्ठ्येकवचनाभिव्यक्त्यर्थमेतदुपादानम् । बुद्ध याः 'स्त्रियां ङितां वा ० | १|४|२८| इति
॥२३॥
टः पुंसि ना | १|४|२४|
इदुदन्तात्परस्याः पुं विषयायाष्टाया ना स्यात् । अतिस्त्रिणा, अमुना । पुंसीति किम् ? बुद्ध याः ॥ २४ ॥
अमुनेति ननु 'मादुवर्णोऽनु | २|१|४७॥ इत्युत्त्वं तु 'अनु' इति वचनात्पश्चाद् भविष्यतीति उदन्तत्वाभावात्कथं नादेश: 'टाङसोरिनस्यो ।
W