________________
(१०६)
।१९।
____तकारोऽसन्देहार्थोऽन्यथा तकारमन्तरेण एरित्युच्यमाने एकार आदेशो भवत्यथवा टौसोः परयोरिकारस्य पूर्वे आदेशा इति सन्देहः स्यात् ॥१९॥
औता ।१।४।२०॥ आवन्तस्य औता सहकारः स्यात् । माले स्तः पश्य वा ।२०।
___आवन्तस्य औता सह - एकस्या अपि षष्ठ्या। अर्थवशाद द्विधा भेदात् आबन्तस्य औता सह एकारः स्यादिति भावः । पूर्व षष्ठ्याः सम्बन्धितया भेदः पश्चात् स्थानितया । नन्वेकस्या अपि षष्ठ्या द्विधा भेदः कथमिति चेत्तथ्यमेकारस्याऽऽदेशत्वात्स्थानमन्तरेणासम्भवात्प्रत्यासत्तेराबन्तस्यैव स्थानित्वम् । स्तः पश्य वा - क्रियापदद्वयम् प्रथमाद्वितीयाद्विवचनयोरभिव्य- . क्त्यर्थः ॥२०॥
इदुतोऽस्नरीदूत् ।१॥४॥२१॥ स्त्ररन्यस्येदन्तस्योदन्तस्य च औता सह यथासंख्यम् ईदूतो स्याताए । मुनी, साधू । अस्त्रेरिति किम् ? अतिस्त्रियो नरौ ।२१। .
___ स्त्रीवर्जनात् षष्ठी न तत्सम्बन्धिनी । इदमेव स्त्रीवर्जनं ज्ञापकं यत्परेणापि 'स्त्रियाः' ।२।१५४। सूत्रण इयादेशेन ईत्कार्य न बाध्यते तेन अतिस्त्रयः, अतिस्त्रये, अतिस्त्र: २, अतिस्त्रौ अतिस्त्रीणाम् इत्यादि सिद्धम् ॥२१॥
जस्येदोत् ।१।४।२२॥ इदुदन्तयोजसि परे यथासंख्य मेदोतो स्याताम् । मुनयः । साधवः