________________
(१०३)
उत्तरेण निषेधे प्रति प्रसवार्थोऽयं योगः ॥११॥
न सर्वादिः ।१।४।१२॥ द्वन्द्व सर्वादिः सर्वादिनं स्यात् । पूर्वापराय । पूर्वापरात् । पूर्वापरे । कतरकतमानाम् । कतरकतमकाः ॥१२॥
'सर्वादे:० ॥१॥४७॥ इति पूर्वसूत्रादनुवृतस्य सर्वादरित्यस्यात्र अर्थवशाद विभक्ति-वि-परिणमनादाह- सर्वादिः सर्वाचिर्न स्यादिति । कतरकतमानाम-सर्वादित्वाभावात् 'अवर्णस्याम: माम' ।।४।१५। इति न भवति । कतरकतमकाः - अत्र सर्वादित्वनिषेधादक्प्रत्ययाभावे कप्प्रत्यये सति स्वाथिकप्रत्ययान्ताग्रहणाद 'द्वन्द्व वा ।।४।११। इति जस इन भवति । 'सर्वादय ऽस्यादो' ३।२।६१ इति पुंवद्भावस्तु यथासंभवं भवत्येव, तत्र भूतपूर्वस्यापि स्यादेग्रहणात् ॥१२॥
तुतीयान्तात्पूधिरं योगे १४ तृतीयान्तात्परो पूर्वावरी योगे सम्बन्धे सति सादी न स्याताम् । 'मासेन पूर्वा य, मासपूर्वाय । दिनेनावराव, दिनावराय । दिनेनावराः, दिनावराः । तृतीयान्तादिति किम् ? पूर्वस्मै मासेन ॥१३॥
.. मासपूर्वायेत्यत्र तृतीयान्तात्परत्वं कथमिति चेत्सत्यम्-योगः सम्बन्धो द्वघा एकार्थीभावो व्यपेक्षा च 'ऊनार्थ० ॥३॥११६७। इति समासे 'ऐकायें ।३।२।८। इति विभक्त लुपि 'लुप्यय्व ल्लेनत्' ।७।४।११२ इत्यनेन पूर्वकार्यनिषेधादत्र निषेधा भावात् स्थानीवा०।७४।१०९।इत्यनेन स्थानिवद्भावात्तृतीयान्तान्परत्वम् । ननु योगग्रहणं निरर्थक भाति तृतीयान्तादित्यनेनैव सिद्धत्वात् न च यास्यति चैत्रो मासेन, पूर्वस्मै दीयतां कम्बल:' इत्यत्र सर्वादित्वनिषेधः स्यादिति वाच्यं 'समर्थः पक्षविधिः ।७।४।१२० न्यायेन न निषेधः इति । येस्सस्यम् अपरे तृतीयान्तेन योगमात्र निषेधमिच्छन्ति तन्मतसङ्गहार्थं योगग्रहणं तन्मते पूर्व दिग्योगलक्षणां पञ्चमीमाश्रित्य 'पूर्वाय मासेम' इत्यपि भवति