________________
(१०२।
शि: । १।४।५५ सूत्रात् ॥९॥
नेमाब्द प्रथमचरमतयायाल्पकतिपयस्य वा 1१।४।२०॥ नेमादीनि नामानि तयायौ प्रत्ययो तेषामदातानां जस इर्वा स्यात् । नेमे नेमाः । अर्द्ध, अर्दाः । प्रथमे, प्रथमाः। चरमे, चरमा, । द्वितये, द्वितयाः । त्रये, त्रयाः । अल्पे, अल्पाः । कतिपये, कतिपयाः ॥१०॥
- नेमेत्यादि- समाहारद्वन्द्व एषः । 'तयि रक्षणे च', अयि गो' माभ्यामचि तयायो शब्दावपि भवतः परं व्याख्यातो विशेषार्थप्रतिपत्ति:' इति न्यायात् अत्र तयायो प्रत्ययौ ग्राह्यो पश्चात् 'प्रत्ययः प्रकत्यादेः । 1७।४।११५।' विशेषणमन्त: ।७।४।११३॥ इति तदन्तप्रतिपत्तिः । द्वावययवो येषां ते द्वितये 'अवयवात्त पट्' ।७।१।१५१ इति तयट् 'द्वित्रिभ्यां०' ।७।१।१५२। इत्ययः । तयट्साहचर्यात् साहचर्यात्सदृशस्यैव ग्रहणम्' इति न्यायात् 'अय' इति तद्धितस्य ग्रहणं न तु 'गय-हृदय.' उणा ३७० । इति विहितस्य । म. स्य 'जस इ.' ।।४।९। इत्यनेन प्राप्तौ, अर्धादीनामप्राप्तो विकल्पः । उभयद. शब्दस्य स्वयट्प्रत्ययरहितस्याखण्डस्य सर्वादी पाठात् पूर्वेण नित्यमेवेत्वं भवति-उभये । स्वाथिकप्रत्ययान्ताग्रहणात् अर्धका इत्यत्र न भवति । व्यव. स्थितविभाषाविज्ञानाद् अर्धादीनामपि संज्ञायां न भवति-अर्धा नाम केचित् । व्यवस्थितं मर्यादानतिक्रान्तं प्रयोगजातं विशेषेण भाषते या सा व्यवस्थितविभाषा । नामेत्यदन्तमव्ययम्, नाम नाम्ना मंजया वेति नामशब्द. स्यार्थः ॥१०॥
द्वन्द्वे वा ॥१॥४॥११॥ बन्दसमासस्थस्यादन्तस्य सवादेस इर्वा स्यात् । पूर्वोत्तरे। पूर्वो
तराः ॥११॥