________________
( ४ )
2.
रा० गु० लोक्यते अवलोक्यते निर्णयार्थमिति घञि लोक ते पश्यति सम्यक् पदार्थान् इति अचि वा लोकः । अनुक्तानामिति उक्ताभ्यः स्वरादिसंज्ञाभ्योऽतिरिक्तानां क्रियागुणद्रव्यजातिकाललिङ्गस्वाङ्ग-सङ्ख्यापरिमाणापत्यवीप्सालुग-वर्णादीनां संज्ञानाम् । साध्यरुपा पूर्वापरीभूतावयवा किया विशेषणं गुणः, 'सत्त्वे निविशतेऽपैति' इत्यादिलक्षणो वा, विशेष्यं द्रव्यम् ।
'आकृतिग्रहणा जातिलिङ्गानां च न सर्वभाक् सकृदाख्यातनिर्गाह्या, गोत्रं च चरणैः सह् ॥ इत्यादि लक्षणलक्षिता जातिः, त्रुटयादि: काल:स्वस्थे नरे समासीने स्पन्दते वामलोचनम् । तस्य त्रिंशत्तमो भागस्त्रुटिरित्यभिधीयते ॥ लिङ्ग पुंस्त्रीनपुसकरुपम्, अविकारोऽद्रव मूर्त प्राणिस्थं स्वाङ्गमुच्यते । च्युतं च प्राणिनस्तत् तन्निभं च प्रतिमादिषु ॥ इत्यादिलक्षणं स्वाङ्गम्, एकाद्य भिधानप्रत्यय हेतुः सङ्ख्या ऊर्ध्वमानं किलोन्मानं, परिमाणं तु सर्वतः, आयामस्तु प्रमाणं स्यात्, सङ्ख्या बाह्या तु सर्वतः || इति लक्षणेन सर्वतो मानं परिमाणं, क्रियागुणद्रव्यादिभिः प्रयोक्तुर्युगपत् व्याप्तुमिच्छा वीप्सा
परः | ७|४|११८ | इति न्याय: तस्मात् वनानीत्यत्र शसोडता | १|४| ४९ | इति बाधित्वा परत्वात् 'नपुंसकस्य शिः | १|४|५२५ | इत्येव भवति । परान्नित्यमिति परत्वादपि नित्यं बलवत् यथा स्योन इत्यत्र परमपि गुणं बाधित्वा नित्यत्वादृट् । 'अनुनासिके चच्छवः शुट | ४|१ | १०८ । त्या धा० । उणा० २५८ । इति ने गुणात्पूर्वं नित्यत्वादृटि कृते पश्चात् गुणे प्राप्त परादन्तरङ्गमिति न्यायात् अन्तरङ्गत्वात् ते बाधित्वा यत्वे स्थान इति ।
वर्णसमाम्नायस्य मातृकापाठस्य लोकात् अर्थात् मातृकापाठो लोकरुढो ज्ञेयः ।
तत्र
औदन्ताः स्वराः । १।१।४।