________________
(३)
-
सिद्धिः स्याद्वादात् । १।१।२। स्याद्वादात् अनेकान्तवादात् प्रकृतानां शब्दानां सिद्धि-निष्पत्तिः ज्ञप्तिश्च वेदितव्या।
रा० गु० सिद्धिः- षिधू गत्यां 'षः सोऽष्यैष्ठि० ।२।३।९८। सेधनं सिद्धिः 'स्त्रियां क्तिः' ।५।३।९१। 'अप्रयोगीत्' ।१।११३७। तिः, 'अधश्चतुर्थातथोर्ध.'।२।१७९। इति तकारस्य धः 'तृतीयस्तृतीय०।१।३।४९। इति धस्य दः । शब्दार्थसम्बन्धसिद्धिश्च स्याद्वांदाधीना इत्यतः उक्तं स्याद्वादात् स्यात् इति विभक्त्यन्त-प्रतिरुपक मव्ययम् अनेकान्त द्योतकम् यस्यैव वर्णस्य हस्वत्वं विधीयते तस्यैव दीर्घत्वादि. तस्य च सर्वात्मना नित्यत्वे पूर्वधर्मनिवृत्तिपूर्वकस्य हस्वादिविधेर संभवः एवमनित्यत्वेऽपि जन्मानन्तरमेव विनाशात् कस्य ह्रस्वादिविधिरिति वर्णरुप - सामान्याऽऽत्मना नित्यो ह्रस्वादिधर्मात्मना. त्वनित्य इति स्याद्वाद: यथा आत्मा आत्मस्वरुपेण नित्यः मनुष्यादि-पर्यायरुपेण त्वनित्यः । अमति गच्छति धमिणमिति दम्यमि० । उणा २००] इति तेऽन्तो धर्मः, न एकोऽनेकः अनेकोऽन्तो यस्यासावनेकान्तः । प्रकृतानामर्थात् प्रस्तुतानाम् ।
. दशधा सूत्राणि संज्ञा- परिभाषा-ऽधिकार-विधि-प्रतिषेध-नियमविकल्प-समूच्चयाऽ-तिदेशाऽ-नूवादरुपाणि तत्र "औदन्ताः स्वराः ।१।१।४।, प्रत्यय: प्रकृत्यादेः, १७४।११५१, धुटि" ।१।४।६८। नाम्यन्तस्थाकवर्गात्० ।२।३।१५। नस्तं मत्यर्थ' ।१।१।२३। नाम सिदयव्यजने० ।११।२१। इति सौ नवेतौ ।।२।३८१, शसोऽना.” १।४।४९। इदितो वा ८।४।१। तयोः समूहवच्च बहुषु ।७३।३। इत्यादीनि प्रत्यकोद'हरणानि, एतेषां मध्ये अधिकारसूत्रमिदमा शास्त्रपरिसमाप्तेः ।
लोकात् ।१।१।३। - अनुक्तानां संज्ञानां न्यायानां च लोकाद् वैयाकरणादेः सिद्धिः ज्ञप्तिश्च वेदितव्या, वर्णसमाम्नायस्य च ।