________________
(२)
मुमो व्यन्जने स्वो |१| ३ | १४ | इति म् इत्यस्यानुस्वारः परमात्मानम् । अतिशयेन प्रशस्यं श्र ेयः अन्यव्याकरणेभ्यः प्रधानत्वात् 'गुणाङ्गाद्वेष्ठेयस् |७|३|९| इतीयस् प्रशस्यस्य श्र: ' | ७| ४ | ३४ | इत्यनेन श्र आदेश: । 'अवर्णस्येवर्णादिनै०' | १|२|६| इत्यनेन ईता सह एकार: । 'अनतो लुप्' | १ | ४|५९ | इति सेलुप् 'सो रु' | २|१|७२ | इति सस्य रः, 'रः पदान्ते० ' | १|३| ५३ | इति रस्य विसर्गः, श्रेयः, अनुशिष्यन्ते व्युत्पाद्यन्ते शब्दा अनेनेत्यनुशासनं 'करणाधारे' |५|३|१२९ । इत्यनट् । शब्दानामनुशासनं शब्दानुशासनं, प्रथमासि: । 'अतः स्यमोऽम्' | १|४|५७ | इति सेरम् । 'समानादमोतः | १|४|४६ । इत्यमोऽस्य लोपः । चर् आचर्यते सेव्यते विनयार्थं विद्याग्रहणार्थं वा शिष्यैरित्याचार्य: । 'ऋवर्णव्यञ्जनाद् ध्यण्' | ५|१|१७| आचार्यश्चासौ हेमचन्द्रश्च आचार्य - हेमचन्द्रः । तेन टा । 'टाड्सोरिनस्यो' |१|४|५| इति टास्थाने इन, 'रवर्णा० | २|३|६३ | इति नस्य णः आचार्यहेमचन्द्रेण । स्मरण पूर्व स्मृत्वा किमल्पमपि चिनोति क्विप् हस्वस्य तः पित्कृति' | ४|४|११३ । इति तोन्तः 'अप्रयोगीत्' | १|१|३७| इति क्विप्लोपः 'तो' | १|३ | १४ | इति किञ्चित् । किञ्चिदति क्रियाविशेषणमतो द्वितीयाऽम्, 'अनतो लुप्' | १|४|५९ | इति अम् लोपः । किञ्चिदित्यखण्डमव्ययं वा प्रथमासिः ‘अव्ययस्य' |३|२|७| इति लोपः । काशृङ् दीप्त प्रकाश्यते शब्दानुशासनं कर्तृ, तत्प्रकाश्यमानं शब्दानुशासनमाचार्यहेमचन्द्र ेण प्रयुज्यते प्रयोक्तृव्यापारे णिग्' | ३ | ४ | २०८ इति णिग्, वर्तमानाते 'क्यः शिति' | ३|४|७० | इति क्य: 'णेरनिटि' | ४ | ३|८३ | इति णिगो लोपे प्रकाश्यते ।
अर्हं । १।१।१ '
अर्हमित्येतदक्षरं परमेश्वरस्य परमेष्ठिनो वाचकपू, म. गलार्थ शास्त्रस्याssaौ प्रणिदध्महे ॥ १ ॥
रा० गु० अर्ह - मह पूजायाम् अर्हति अष्टप्रातिहार्यपूजामित्यर्ह: अर्हमिति सानुनासिको अथवा मान्तोऽप्यस्ति अव्ययम् । अर्ह इति अक्षर अर्थात् अव्ययं परमेश्वरस्य अर्हद - भगवत एव परमेष्ठिनो वाचकम् मङ्गलार्थ शास्त्रस्यादौ प्रणिदध्महे व्यायामः इति भावः ।