________________
(५)
-
औकारावसाना वर्णाः स्वरसंज्ञाः स्युः । अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ।
राग० औत् अन्तेऽन्तो वा येषां ते । अत्रान्तशब्दोऽवयववाची अवयवस्य चावश्यं समुदाय रूपेऽन्तपदार्थऽन्तर्भाव: अत एवात्र तद्गुणसंविज्ञानबहुव्रीहिः यथा लम्बभूज: न त्वद्गुणसंविज्ञान-बहुव्रीहिः यथा दृष्टसागर इति ज्ञापकं चात्र-अष्ट औ जस्शसोः।१।४।५३। आतो णव: औ' ।४।२।१२०॥ उत औविति व्यञ्जनेऽ द्वः।४।३।५९। इत्यादि औकारस्य हि स्वरत्वाभावे 'अष्ट औ० ।१।४।५३। इत्यादिसूत्रेषु 'स्वरे वा ।१।३।२४। इत्यनेन यलोपो न स्यात् । तकार: उच्चारणार्थ स्वरूपपरिग्रहार्थ इत्यर्थः तपरत्वान्निर्देशस्य 'औत् इत्युक्ते औकारस्वरुपं प्रतीयते, तकाराभावे तु आवन्ता इति कृते कष्टा प्रतीति भवेदिति भावः । स्वयं राजन्ते शोभन्ते इति स्वराः 'क्वचित् · ।५।१।१७१। इति डः, 'डित्यन्त्यस्वरादे: ।।१।११४। पृषोदरादयः ।।२।१५५। इति स्वयशब्दस्य स्वभावः ।
एकावित्रिमात्राः हस्वदीर्घप्लुताः । १।१।५। मात्रा कालविशेषः । एकद्वित्रयुच्चारणमात्रा औदन्ता वर्णा यथासङ्घयं ह्रस्व-दीर्घ-प्लुत-संज्ञाः स्युः ।
रा० गु० एका व कैच तिस्रश्च एकद्वितिस्त्र: । एकद्वितिस्त्रः मात्रा येषां ते एकद्वित्रिमात्राः 'सर्वादयोऽस्यादौ ।३।२६॥ इन्यनेन एके___ त्यत्र पुवद्भावः । मात्रेत्यत्र 'गोश्चान्ते ह्रस्वो० ॥२।४।९६॥ इति स्वः ।
एकमात्रो भवेद्बस्वो, द्विमात्रो दीर्घ उच्यते।
प्लुतः स्वरस्त्रिमात्रः स्याद्वयञ्जनं चाद्घमात्रकम् ।। स्वरस्यात्यन्तापकृष्टो निमेंपोन्मेषक्रियापरिच्छिन्नः उच्चारणकालो मात्रा।
अनवर्णा नामी । १।१।६। अवर्णवर्जा औदन्ता वर्णा नामिसंज्ञाः स्युः । इ ई उ ऊ ऋ ऋ.