________________
एषु- 'अनक्' ।२।१॥३६॥ 'एबहुस्भासि ।१।४।४। 'नाम्यन्तस्था०' २॥३॥१५॥ देवयोः - अनेन एकार: ‘एदतोऽयाय ।१।२।२३। ॥इत्यय ॥४॥
-
टाङसोरिनस्यो ।१।४।५। आत्परयोष्टाङसोर्यथासङख्यं इनस्यो स्याताम् । तेन । तस्य ॥५॥
अतिजरसा, अतिजरस इत्यत्र परत्वात् अर्थात् 'रामेण, रामस्य' इत्यादो- 'टाङसोः० । १।४।५ इत्यस्य जरसौ इत्यादी 'जराया: जरस् वा ।२।१३। इत्यस्य द्वयोरपि चरितार्थत्वात् स्पद्ध सति कृताकृतप्रसङ्गिरोन नित्यत्वाच्च प्रागेव जरसादेश: पश्चादकारान्तत्वाभावादेतत्सूत्रप्रवृत्त्यभावः । अन्ये तु प्रागेवेनादेशं 'सन्निपातलक्षणो: । न्यायस्यानित्यत्वाश्रयणात् पश्चाज्जरसादेशं चेच्छन्तोऽतिजरसिनेत्यपि मन्यन्ते ॥५॥
हेडस्योर्यातौ ।१।४६। मात्परस्य ईसेश्च यथासंख्यं च आश्च स्यानाम् । देवाय । देवात् ॥६॥
न च 'अत्' इत्येव कुर्यात्तथापि देवादित्यादिपसिद्धि: स्यादिति वाच्यं न च 'लुगस्यादे० ॥२।१।११३ इति प्राप्नोतीति वाच्यम् 'अत्' इति विधानसामर्थ्याद् लुगभावात् अन्यथा 'त्' इत्येव कृर्यादति । केचित्तु 'सन्निपातलक्षण.' न्यायस्यानित्यत्वाश्रयणात् अतिजरसादित्यपि मन्यन्ते तन्मतसङ्गहाय दीर्घकरणम्, दीर्घकरणाच्च स्वमतेऽपि सम्मतम् ॥६।।
-
.
.
सवदिः स्मैस्माती १४१७। सर्वादेरदन्तस्य सम्बन्धिनोइस्योर्यथासङ्खयं स्मैस्मातौ स्याताम् । सर्वस्मै, सर्वस्मात् । सर्व विश्व उभ उभयद् अन्य अन्यतर इतर उत्तर उतम त्व त्वत् नेम । समासिमौ सर्वार्थो । पूर्वपरावर