________________
(१००)
अन्तरम्बहिर्योगोपसंव्यानयोपुरि । त्यद् स्वमज्ञातिधनाख्यायाम् । दक्षिणोत्तरापराधराणि व्यवस्थायाम् । तद् यद् अदस् इदम् एतद् एक द्वि युष्मद् अस्मद् भवतु किन इत्यसंज्ञायां सर्वादिः ॥७॥
सर्व आदिर्यस्य स सर्वादिस्तस्य अत्र तद्गुणस विज्ञानबहुव्रीहिः । तस्यान्यपदार्थस्य गुणा: उपलक्षणानि क्रियान्वयित्वेन यस्मिन् स तद्गुणसं - विज्ञानबहुव्रीहिः, तद्भिन्नः तिरोहितावयवभेदः समुदायोऽतद् गुणसंविज्ञानबहुव्रीहिः । अत्र तद्गुणसविज्ञानबहुव्रीहिः कार्य अन्यथा सर्वशब्दस्य सर्वादित्वं न स्यात् । आदिशब्दो व्यवस्थावाची तेन गणपाठव्यवस्थिताः सर्व विश्व इत्यादया गृह्यन्ते । स्याद्यधिकारान्नाम्नः आक्षेपेण विशेषणमन्तः | ७|४|११३ ॥ इति तदन्तविधेलोभात् 'न सर्वादि:' | १|४|१२| इति द्वन्द्व निषेधाद् वा 'ग्रहणवता] नाम्ना न तदन्तविधि:' इति न्यायस्यानुपस्थितेः परमसर्वस्मै इत्यायो भवन्ति । सर्वस्मै इत्यादिसिद्धिस्तु 'आद्यन्तवदेकस्मिन्' इति न्यायेन भवति । ननु सर्वस्य बुद्धिस्थानेकार्थवाचकत्वेन बहुवचनमेव स्यान्न त्वेकवचनमिति चेन्न यदाऽनुद्भूतावयवभेदस्तदेकवचनं भविष्यति यदा तु समुदाय - द्वित्वादिविवक्षा तदा द्विवचनादि । उद्भूतावयवविवक्षायां तु बहुबचनमेव सर्वे पटा इति । यत्तत्किमन्यात् ॥ ७३॥५३॥ इत्यादिसूत्रविहितडतर ग्रहणेनैव सिद्ध ेऽन्यतरग्रहणमन्यतमस्य सर्वादित्वनिषेधार्थम् । एके त्वाहुः नायं उतरप्रत्ययान्तोऽन्यतरशब्दः किन्तु अव्युत्पन्न स्तरोत्तरपदः तरबन्तो वा तन्मते उतमान्तस्याप्यन्यशब्दस्य सर्वादित्वम् अन्यतमस्मै अन्यतमस्मात् । प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तामपि ग्रहणम्' इति न्यायेन प्रकृतिग्रहणेनैव उतरडतमप्रत्ययान्तानामपि ग्रहणे लब्धे पृथगुपादानमन्यस्वार्थिकप्रत्ययान्तामग्रहणाथंम् 'पञ्चतोऽन्यादे० ' |१| ४ | ५८ | इति सूत्रविहितान्यादि - लक्षणदार्थं च । सर्वेत्यादि - सर्वशब्दसाहचर्यात्समस्तार्थस्य विश्वशब्दस्य ग्रहणं न तु जगदर्थस्थ, त्वशब्दोऽन्यार्थः, त्वच्छब्दः समुच्चयवाचकः । नेमशब्दोऽर्धार्थः, सर्वासमसिमोहणात्समाय देशायेत्यादौ न भवति, अविषमयेत्यथः । पूर्वे - त्यादि- स्वाभिधेयापेक्षोऽवधि नियमो व्यवस्था तस्यां गम्यमानायाम् अवधिर्मर्यादा तस्य नियमोऽवश्यंभाव:, स्वपदग्राह्याः पूर्वादिशब्दास्तेषामभिधेयोऽर्थः दिग्देशकालस्वभावोऽर्थः । बहिरित्यादि - बहिर्भावेन बाह्य ेन वा योगे उपसंव्याने उपसंवीयमाने चार्थे वर्तमानोऽन्तरशब्दः, न चेद् बहियोंगेंऽपि पुरि वर्तते, अन्तरस्मै गृहाय नगरबाह्याय चाण्डालादिगृहायेत्यर्थः, चाण्डालादि