________________
स्वोपनवृत्तिसहितम् [७८९] पमीलइ । निमिल्लइ निमीलइ। समिल्लइ समीलइ। उम्मि. लइ उम्मीलइ ॥ प्रादेरिति किम् । मीलइ ॥ २३२ ।।
उवर्णस्यावः । ८ । ४ । २३३ । धातोरन्त्यस्योवर्णस्य अवादेशो भवति ॥ हनुछ । निण्हवह ॥ हु । निहवइ ॥ च्युङ्। चवइ ।। रु । रवइ । कु। कवह ॥ सू । सवइ । पसवइ ॥ २३३ ॥
ऋवर्णस्यारः। ८।४ । २३४।। धातोरन्त्यस्य ऋवर्णस्य अरादेशो भवति ॥ करइ ॥ धरइ । मरइ । वरइ । सरह । हरइ । तरइ । जरइ ॥२३४॥
वृषादीनामरिः । ८ । ४ । २३५। वृष इत्येवंप्रकाराणां धातूनाम् ऋवर्णस्य अरिः इत्यादेशो भवति ॥ वृष् । वरिसइ ॥ कृष् । करिसइ ॥ मृष् । मरिसइ ॥ हृष् । हरिसइ ॥ येषामरिरादेशो दृश्यते ते वृषादयः ॥ २३५ ॥
रुषादीनां दीर्घः । ८।४ । २३६ । ___ रुष इत्येवंप्रकाराणां धातूनां स्वरस्य दीर्घो भवति ॥ रूसइ । तूसइ । सूसइ । दूसइ । पूसइ । सीसइ । इत्यादि ॥२३६॥
युवर्णस्य गुणः । ८ । ४ । २३७ । धातोरिवर्णस्योवर्णस्य च कित्यपि गुणो भवति । जेऊण । नेऊण । नेइ । नेन्ति । उड्डेइ । उडेन्ति । मोत्तूण । सोऊण ॥ कचिन्न भवति ॥ नीओ। उडीणो ।। २३७ ।।
स्वराणां स्वराः । ८ । ४ । २३८ । धातुषु स्वराणां स्थाने स्वरा बहुलं भवन्ति ॥ हवइ ।