________________
स्वोपज्ञवृत्तिसहितम् [७६५] .. स्मरेझर झूर-भर-भल-लढ-विम्हर-सुमर-पयर-पम्हुहाः
।८।४।७४ । स्मरेरेते नवादेशा वा भवन्ति ॥ झरह ।झूरह । भरइ। भलइ । लढइ विम्हरइ । सुमरइ । पयरइ । पम्हुहइ । सरइ ॥ ७४ ॥ विस्मुः पम्हस-विम्हरचीसराः । ८ । ४ । ७५ ।
विस्मरतेरेते आदेशा भवन्ति ॥ पम्हुसइ । विम्हरह। वीसरह ॥ ७५ ॥
व्याहगेः कोक-पोकौ । ८।४ । ७६ ।। व्याहरतेरेतावादेशौ वा भवतः॥ कोकइ । हृस्वत्वे तु कुक्का । पोकइ । पक्षे । वाहरइ ॥ ७६ ॥
प्रसरेः पयल्लोवेल्लो। ८ । ४ । ७७ । प्रसरतेः पयल्ल उवेल्ल इत्येतावादेशौ वा भवतः। पयल्लइ । उवेल्लइ । पसरह ॥ ७७ ॥
महमहो गन्धे । ८।४। ७८ । प्रसरतेर्गन्धविषये महमह इत्यादेशो वा भवति ॥ महमहइ मालई ।मालई-गन्धो पसरह ॥गन्ध इति किम् । पसरह ॥७८ ॥ निस्सरेणीहर-नील-धाड-वरहाडाः।८।४ । ७९ ।
निस्सरते चत्वार आदेशा वा भवन्ति ॥ णीहरइ । नीलइ । धाडइ वरहाडइ । नीसरह ॥ ७९ ॥
जाग्रजग्गः । ८।४।८०। जाग्रतेर्जग्ग इत्यादेशो वा भवति ॥ जग्गइ । पक्षे । जागरह ॥८॥