________________
[७६४] प्राकृतव्याकरणम् ख्यं णिछुह संदाण इत्यादेशौ वा भवतः॥ णिहइ । निष्टम्भं करोति । संदाणइ । अवष्टम्भं करोति ॥६७ ॥
श्रमे वावम्फः । ८।४।६८। श्रमविषयस्य कृगो वावम्फ इत्यादेशो वा भवति । वावम्फइ । श्रमं करोति ॥ ६८॥
मन्युनौष्ठमालिन्ये णिव्वोलः । ८।४।६९। .. मन्युना करणेन यदोष्ठमालिन्यं तद्विषयस्य कुगो णिव्वोल इत्यादेशो वा भवति । णिव्वोलह । मन्युना ओष्ठं मलिनं करोति ॥ ६९ ॥
शैथिल्य-लम्बने पयल्लः ।८।४ । ७०।।
शैथिल्यविषयस्य लम्बनविषयस्य च कृगः पयल्ल इत्यादेशो वा भवति । पयल्लइ । शिथिलीभवति लम्बते वा ॥ ॥७०॥
निष्पताच्छोटे णीलुञ्छः । ८ । ४.७१ निप्पतनविषयस्य आच्छोटन विषयस्य च कृगो णीलुछ इत्यादेशो भवति वा ॥णीलुञ्छइ । निष्पतति । आ. च्छोटयति वा ॥ ७१॥
क्षुरे कम्मः । ८।४।७२। .. क्षुरविषयस्य कृगः कम्म इत्यादेशो वा भवति ॥ कम्मइ । क्षुरं करोतीत्यर्थः ॥७२॥
चाटौ गुललः । ८।४ । ७३ । चाटुविषयस्य कृगो गुलल इत्यादेशो वा भवति ॥ गुललइ । चाटुकरोतीत्यर्थः ॥ ७३ ॥