________________
स्वोपज्ञवृत्तिसहितम् [७३९] (८-३-७) इत्येतत्कातिदेशः । मालाहि गिरीहि गुरूहि सहीहि वहूहि कयं । एवं सानुनासिकानुस्वारयोरपि ॥ 'ङसेस त्तो-दो-हि-हिन्तो-लुकः' (८-३-८) इत्येत. कार्यातिदेशः । मालाओ । मालाउ। मालाहिन्तो ।। बुद्धीओ। बुद्धीउ । बुद्धीहिन्तो। धेगूओ । घेणूउ । धे]हिन्तो आगओ। हिलुको तु प्रतिषेत्स्येते (८-३-१२७; १२६.) 'भ्यससू तो दो दु हि हिन्तो सुन्तो' (८-३-९) इत्ये तत्कार्यातिदेशः । मालाहिन्तो। मालासुन्तो । हिस्तु निषे त्स्यते (८-३-१२७ ) एवं गिरीहिन्तो । इत्यादि । 'उसः स्सः' (८-३-१०) इत्येतत्कार्यातिदेशः । गिरिस्स । गुरुस्स । दहिस्स । महुस्स ॥ स्त्रियां तु 'टा-उस-डे० ' (८-३-२९ ) इत्याधुक्तम् ॥ 'डे म्मि ' (८-३-११) इत्येतत्कार्यातिदेशः । गिरिम्मि । गुरुम्मि । दहिम्मि । महुम्मि । डेस्तु निषेत्स्यते (८-३-१२८ )। स्त्रियां तु 'टा-उस-डे' (-३-२९) इत्यायुक्तम् । 'जस्शस्-ङसि-तो-दो-द्वामि दीर्घः' (८-३-१२) इत्येत. कार्यातिदेशः। गिरी गुरू चिट्ठन्ति । गिरीओ गुरूओ आगओ। गिरीण गुरूण धणं ॥ 'भ्यसि वा' (८-३-१३) इत्येतत्कार्यातिदेशो न प्रवर्तते ' इदुतो दीर्घः' (८-३-१६) इति नित्यं विधानात् ।। 'टाण-शस्येत्' (८.३-१४) 'भिस्भ्यस्सुपि' (८-३-१५) इत्येतत्कार्यातिदेशस्तु निषेत्स्यते (८-३-१२९) ॥ १२४ ॥
न दी? णो। ८।३ । १२५ । इदुदन्तयोराजस्-शसङस्यादेशे णो इत्यस्मिन् परतो