________________
[७३८] प्राकृतव्याकरणम् भवति ॥ तिणि ठिआ पेच्छ वा ॥ १२१ ॥
चतुरश्चत्तारो चउरो चत्तारि । ८ । ३ । १२२ । 3. चतुरशब्दस्य जस्-शस्भ्यां सह चत्तारो चउरो चत्तारि इत्येते आदेशा भवन्ति ॥ चत्तारो। चउरो। च. त्तारि चिट्ठन्ति पेच्छ वा ॥ १२२॥
संख्यायो आमो ग्रह ण्हं । ८ । ३ । १२३ । * संख्याशब्दात्परस्यामो पह पहं इत्यादेशौ भवतः ॥ दोण्ह । तिण्ह । चउण्ह । पञ्चण्ह । छण्ह । सत्तण्ह। अट्ठण्ह ।। एवं दोण्हं । तिण्हं। चउण्हं। पंचण्हं । छण्हं । सत्तपहं । अट्ठण्हं । नवण्हं । दसह । पण्णरसण्हं दिवसाणं । अट्ठारसण्डं समण-साहस्सीणं ॥ कतीनाम् । कइण्हं ।। बहुलाधिकाराद् विंशत्यादेनं भवति ॥ १२३ ॥
शेषे दन्तवत् । ८ । ३ । १२४ । - उपयुक्तादन्यः शेषस्तत्र स्यादिविधिरदन्तवदतिदि. श्यते । येष्वाकाराद्यन्तेषु पूर्व कार्याणि नोक्तानि तेषु 'जस्-शसोलक' (८-३-४) इत्यादीनि अदन्ताधिकारविहितानि कार्याणि भवन्तीत्यर्थः । तत्र 'जसूशसोलुक' इत्येतत्कार्यातिदेशः । माला गिरी गुरू सही वहू रेहन्ति पेंच्छ वा ॥ ' अमोस्य' (८-३-५) इत्येतत्कातिदेशः । गिरि गुरुं सहिं वहुं गामणि खलपुं पेच्छ । 'टा-आमो. णः' (८-३-६) इत्येतत्कार्यातिदेशः। हाहाण कयं । मालाण गिरीण गुरूण सहीण वहूण धणं । टायास्तु । 'टा णा' (८-३-२४ ) ॥ 'टा-ङस्-डेरदादिदेवा तु उसेः' (६-३-२९) इति विधिरुक्तः ॥ 'भिसो हि. हिँ हिं'