________________
[७०७]
स्वोपनवृत्तिसहितम् क्षेपे । हरे णिल्लज्ज ॥ संभाषणे। हरे पुरिसा ॥ रतिकलहे। हरे बहु-वल्लह ॥ २०२॥
ओ सूचना-पश्चात्तापे । ८ । २ । २०३ । ___ओ इति सूचनापश्चात्तापयोः प्रयोक्तव्यम् ॥ सूचनायाम् । ओ अविणय-तत्तिल्ले ॥ पश्चात्तापे। ओ न भए छाया इत्तिआए॥ विकल्पे तु उतादेशेनैवीकारेण सिद्धम्॥ ओ विरएमि नहयले ॥ २०३ ॥ अवो सूचना दुःख-संभाषणापराध-विस्मयानन्दादर
भय-खेद-विषाद-पश्चात्तापे ।८।२।२०४।
अव्वो इति सूचनादिषु प्रयोक्तव्यम् ॥ सूचनायाम् । अव्वो दुक्करयारय । दुःखे । अवो दलन्ति हिययं ॥ संभाषणे ।अव्वो किमिणं । किमिणं ॥ अपराधविस्मययोः। अव्वो हरन्ति हिअयं तहवि न वेसा हवन्ति जुवईण । अव्वो किंपि रहस्सं मुणन्ति धुत्ता जणब्भहिआ ॥ आनन्दादरभयेषु । अव्वो सुपहायमिणं अव्वो अजम्ह सप्फलं जी। अव्वो अइअम्मि तुमे नवरं जइ सा न जूरिहिह ॥ खेदे । अव्वो न जामि छेत्तं ।
विषादे। अव्वो नासेन्ति दिहिं पुलयं वड्ढेन्ति देन्ति रणरणयं । एम्हि तस्सेअ गुणा ते चिअ अब्वो कह णु एअं॥ पश्चात्तापे। अव्वो तह तेण कया अहयं जह कस्य साहेमि ॥ २०४ ॥