SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञचिसहितम् [६९१] . महाराष्ट्रे ह-रोः। ८।२ । ११९।। महाराष्ट्रशब्दे हरोयत्ययो भवति॥ मरहट्ठे ॥११९॥ — हदे ह-दोः। ८ । २ । १२० । हृदशब्दे हकारदकारयोर्व्यत्ययो भवति॥द्रहो। आर्षे । हरए महपुण्डरिए ॥ १२० ॥ हरिताले र-लोन वा । ८ । २ । १२१ । हरितालशन्दे रकारलकारयोर्व्यत्ययो वा भवति । हलिआरो हरिआलो ॥ १२१ ॥ लघुके ल-होः । ८।२।१२२ । लघुकशब्दे घस्य हत्वे कृते लहोर्व्यत्ययो वा भवति॥ हलुअं। लहुअं॥ घस्य व्यत्यये कृते पदादित्वात् हो न प्रामोतीति हकरणम् ॥१२२ ॥ . ललाटे ल-डोः। ८ । २ । १२३ । - ललाटशब्दे लकारडकारयोर्व्यत्ययो भवति वा॥ णडालं । णलाडं । ललाटे च' (८-१-२५७) इति आदे. लस्य णत्वविधानादिह द्वितीयो लः स्थानी ॥ १२३ ॥ . ह्ये ह्योः। ८।२।१२४ । यशब्दे हकारयकारयोर्व्यत्ययो वा भवति ॥गुह्यम् । गुय्हं । गुज्झं ॥ सह्यः । सय्हो सज्झो ॥ १२४ ॥ . स्तोकस्य थोक-थोव-थेवाः । ८ ।।२।१२५ । स्तोकशब्दस्य एते त्रय आदेशा भवन्ति वा ॥ थोकं थोवं थेवं । पक्षे । थोरं ॥ १२५ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy