SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ [ ६९० ] प्राकृतव्याकरणम् तन्वीतुल्येषु । ८ । २ | ११३ | उकारान्ता डीप्रत्ययान्तास्तन्वीतुल्याः । तेषु संयुक्तस्यान्त्यव्यजनात् पूर्व उकारो भवति ॥ तणुवी । लहुवी । गुरुषी । बहुवी । पुहुवी । मउबी ॥ कचिदन्यत्रापि । सुधनम् । सुरूधं || आर्षे । सूक्ष्मम् । सुहुमं ॥ ११३ ॥ एकस्वरे श्वः - स्वे | ८ | २ | ११४ | एकस्वरे पदे यौ श्वस् स्व इत्येतौ तयोरन्त्यव्यञ्जनापूर्व उद् भवति ॥ श्वः कृतम् । सुवे कथं ॥ स्वे जनाः । सुवे जणा । एकस्वर इति किम् । स्व-जनः । स यणो ॥ ॥ ११४ ॥ ज्यायामीत् | ८ | २ | ११५ । ज्याशब्दे अन्स्यव्यञ्जनात्पूर्व ईद् भवति || जीआ ॥ ॥ ११५ ॥ करेणू - वाराणस्यो र - गोर्व्यत्ययः | ८ | २ | ११६ | अनयो रेफणकारयोर्व्यत्ययः स्थितिपरिवृत्तिर्भवति ॥ कणेरू । वाणारसी ॥ स्त्रीलिङ्गनिर्देशात्पुंसि न भवति । एसो करेणू ॥ ११६ ॥ आलाने लनोः । ८ । २ । ११७ । आलानशब्दे लनोर्व्यत्ययो भवति ॥ आणाली । आणाल - क्खम्भो ॥ ११७ ॥ अचलपुरे च - लोः | ८ | २ | ११८ | अचलपुरशब्दे चकार लकारयोर्व्यत्ययो भवति ॥ अल पुरं ॥ ११८ ॥ }
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy