________________
स्वोपज्ञवृत्तिसहितम् [६५१] ओवा भवति॥ मोहो मऊहो। लोणं। इअलवणुग्गमा । चौग्गुणो चउग्गुणो। चोत्थो चउत्थो। चोत्थी चउत्थी। चोद्दह चउद्दह । चोदसी चउद्दसी । चोव्वारो चउब्वारो। सोमालोसुकुमालो। कोहलं कोउहल्लं। तहमन्ने कोहलिए। ओहलो उऊहलो। ओक्खलं उलूहलं । मोरो मऊरो इति तु मोरमयूरशब्दाभ्यां सिद्धम् ॥ १७१ ॥
अवापोते । ८ । १ । १७२ । अवापयोरुपसर्गयोरुत इति विकल्पार्थनिपाते च आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति ।। अव । ओअरइ अवयरइ । ओआसो अवयासो॥ अप । ओसरइ । अवसरइ । ओसारिअं अवसारिअं॥ उत । ओ वणं । ओ घणो। उअ वणं । उअ घणो ॥ कचिन्न भवति । अवगयं । अवसहो । उअ रवी ॥ १७२ ॥
ऊचोपे ।। १ । १७३ । . उपशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ऊत् ओचादेशौ वा भवतः ॥ ऊहसि ओहसि उवहसि। ऊज्झाओ ओज्झाओ उवज्झाओ। ऊआसो ओआ. सो उववासो ॥ १७३॥
उमो निषण्णे। ८।१ । १७४ । निषण्णशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह उम आदेशो वा भवति ॥ णुमण्णो । णिसपणो ॥१७४ ॥
प्रावरणे अङ्ग्वाऊ । ८ । १ । १७५। । प्रावरणशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह