SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ [६५०] प्राकृतव्याकरणम् स्थविर-विचकिलायस्कारे । ८ । १ । १६६ । । एषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् भवति ॥ थेरो। वेइल्लं । मुद्ध-विअइल्ल-पसूणपुञ्जा इत्यपि दृश्यते । एकारो ॥१६६॥ वा कदले । ८।१ । १६७ । कदलशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् वा भवति ॥ केलं कयलं । केली कयली ॥ १६७ ॥ वेतः कर्णिकारे । ८।१ । १६८।... कर्णिकारे इतः सस्वरव्यञ्जनेन सह एद् वा भवति ॥ कण्णेरो कण्णिआरो ॥ १६८ ॥ अयौ वैत् । ८।१ । १६९ । . अयिशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ऐद् वा भवति ॥ ऐ बोहेमि । अइ उम्मत्तिए । वचनादैकारस्यापि प्राकृते प्रयोगः ॥ १६९ ॥ ओत्पूतरचदर नवमालिका-नवफलिका-गफले ।८।१ । १७० । पूतरादिषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् भवति ॥ पोरो । बोरं । बोरी। नोमालिआ। नोहलिआ पोष्फलं । पोप्फली ॥ १७० ॥ नवा मयूख लवण चतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वार-सुकु मार-कुतूहलोदूखलोलूखले ।८।१।१७१। मयूखादिषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy