________________
स्वोपज्ञवृत्तिसहितम् [६४१] .. ओत्संयोगे। ८ । १ । ११६ ।
संयोगे परे आदेरुत ओत्वं भवति ॥ तोण्डं । मोण्डं । पोक्खरं । कोहिम। पोत्थओ । लोद्धओ।मोत्था । मोग्गरो। पोग्गलं । कोण्ढो । कान्तो । वोकन्तं ॥ ११६ ॥
कुतूहले वा हस्वश्च । ८ । १ । ११७ । कुतूहलशब्दे उत ओद् वा भवति तत्संनियोगे ह. स्वश्च वा ॥ कोऊहलं कुऊहलं कोउहल्लं ॥ ११७ ॥
अदूतः सूक्ष्मे वा । ८।१ । ११८ । सूक्ष्मशब्दे ऊतोद् वा भवति ॥ सण्हं सुण्हं ॥ आर्षे । सुहुमं ॥ ११८ ॥
दुकूले वा लश्च दिः । ८ । १ । ११९ ।
दुकूलशब्दे ऊकारस्य अत्वं वा भवति, तत्संनियोगेच लकारो द्विर्भवति ॥ दुअल्लं दुऊलं ॥ आर्षे दुगुलं ॥११९।।
ईर्वोदयूढे । ८ । १ । १२० । उद्वयूढ शब्दे ऊत ईत्वं वा भवति ॥ उव्वीढं । उब्यूट ॥.१२०॥
उर्भू-हनूमत्कण्डूय-चातूले । ८।१ । १२१ ।
एषु ऊत उत्वं भवति ॥ भुमया । हणुमन्तो। कण्डअइ । वाउलो ॥ १२१ ।।
मधूके वा । ८।१ । १२२ । मधूकशब्दे ऊत उद् वा भवति ॥ महु मह अं॥१२२॥