________________
[६४.]
प्राकृतव्याकरणम् गुरौ के वा । ८।१ । १०९। गुरौ स्वार्थे के सति आदेरुतोद् वा भवति ॥ गुरुओ गुरुओ॥ क इति किम् । गुरू ॥१०९॥
इ(कुटौ । ८।१।११०। भृकुटावादेरुत इर्भवति ॥ भिउडी ॥ ११०॥
पुरुषे रोः । ८ । १ । १११ । पुरुषशब्दे शेरुत इर्भवति॥ पुरिसो। पउरिसं ॥१११॥
ई. क्षुते । ८ । १ । ११२। क्षुतशब्दे आदेरुत ईत्वं भवति ॥ छी॥ ११२ ॥
उत्सुभग-मुसले वा । ८ । १ । ११३ अनयोरादेरुत ऊद् वा भवति ॥ सहवो सुहओ। मूसलं मुसलं ॥ ११३॥ ..
अनुत्साहोत्सन्ने सच्छे । ८ । १ । ११४ । उत्साहोत्सन्नवर्जिते शब्दे यौ त्सच्छौ तयोः परयो. रादेरुत ऊद् भवति ॥ स । ऊसुओ। ऊसवो। ऊसित्तो। ऊसरइ ॥ छ । उद्गताः शुका यस्मात् सः ऊसुओ। ऊससह ।। अनुत्साहोत्सन्न इति किम् । उच्छाहो । उच्छन्नो ॥११४॥
लुकि दुरो वा । ८ । १ । ११५ । दुपसर्गस्य रेफस्य लोपे सति उत ऊत्वं वा भवति ॥ दूसहो दुसहो । दूहवो दुहवो ॥ लकीति किम् । दुस्सहो विरहो ॥११५॥. . .