________________
[६३८] प्राकृतव्याकरणम्
ओच्च विधाकृगः। ८।१ । ९७। . द्विधाशब्दे कृग्धातोः प्रयोगे इत ओत्वं चकारावुत्वं च भवति ॥ दोहाकिज्जइ । दुहा-किज्जइ ॥ दोहा इअं। दुहाइ । कृग इति किम् । दिहा-गयं ।। क्वचित् केवल. स्यापि । दुहावि सो सुर-बहू सत्थो ।। ९७ ॥ ..
वा निझरे ना । ८।१ । ९८ । निर्झरशब्दे नकारेण सह इत ओकारो वा भवति॥ ओझरो निझरो ॥९८॥
हरीतक्यामीतोत् । ८।१ । ९९। हरीतकीशब्दे आदेरीकारस्य अद् भवति॥हरडई।९९॥
आकश्मीरे । ८।१।१००। कश्मीरशन्दे ईत आद् भवति ॥ कम्हारा ॥ १० ॥
पानीयादिवित् । ८ । १ । १०१ । पानीयादिषु शब्देषु ईत इद् भवति ॥ पाणिवे। अलिअं। जिअइ । जिअउ । विलिअं । करिसो। सिरिसो दुइ।तइ । गहिरं । उवणि। आणि। पलिवि।
ओसिअन्तं । पसिअ । गहिरं। वम्मिओ। तयाणि ॥ पानीय । अलीक । जीवति । जीवतु। वीडित । करीष । शिरीष । द्वितीय । तृतीय । गभीर । उपनीत । आनीत । प्रदीपित । अवसीदत् । प्रसीद । गृहीत । वल्मीक । तदा. नीम् । इति पानीयादयः ॥ बहुलाधिकारादेषु कचिन्नित्यं कचिद् विकल्पः। तेन पाणी। अलीअं। जीअइ। करीसो। उवणीओ । इत्यादि सिद्धम् ॥ १०१ ॥