________________
स्वोपनवृत्तिसहितम् [६३७] अकारो भवति ॥ इअ जम्पिआवसाणे । इअ विअसिअ. कुसुम सरो॥ वाक्यादाविति किम् । पिओ त्ति । पुरिसो त्ति ॥ ९१ ॥ ईर्जिबा-सिंह-त्रिशदिशती त्या । ८।१।९२।
जिह्वादिषु इकारस्य तिशब्देन सह ईर्भवति। जीहा। सीहो । तीसा । वीसा ।। बहुलाधिकारात् कचिन्न भवति । सिंह-दत्तो । सिंह-राओ॥ ९२॥ - लुकि निरः । ८ । १ । ९३ ।
निर उपसर्गस्य रेफलोपे सति इत ईकारो भवति ।। नीसरह । नीसासो॥ लुकीति किम् । निण्णओ। निस्सहाई अङ्गाई ॥ ९३.॥
बिन्योरुत् । ८ । १ । ९४ । द्विशब्दे नावुपसर्गे च इत उद् भवति॥ द्वि। दु:मत्तो। दु-आई । दुःविहो । दु-रेहो । दुःवयणं । बहुलाधिकारात् कचिद् विकल्पः दु-उणो । बि-उणो। दुइओ विहओ॥ कचिन्न भवति । द्विजः। दिओ ॥ द्विरदः । दिरओ। कचिद् ओत्वमपि । दो-वयणं । नि । णुमजइ । णुमन्नो। कचिन्न भवति । निवडइ ॥ ९४ ॥
- प्रवासीक्षौ । ८।१ । ९५ । अनयोरादेरित उत्वं भवति ॥ पावासुओ। उच्छू ॥९५॥
युधिष्ठिरे वा । ८ । १ । ९६ । युधिष्ठिरशब्दे आदेरित उत्वं वाभवति ॥जहुटिलो। जहिहिलो ॥९६ ॥