________________
(६१८) प्राकृतव्याकरणम्
आर्षम् । ८।१ । ३ । ऋषीणाम् इदम् आर्षम् । आर्ष प्राकृतं बहुलं भवति। तदपि यथास्थानं दर्शयिष्यामः । आर्षे हि सर्वे विधयो विकल्प्यन्ते ॥ ३॥
दीर्घ-हृस्त्रौ मिथो वृत्तौ । ८।१।४। वृत्तौ-समासे स्वराणां दीर्घहस्वौ बहुलं भवतः। मियः परस्परम् ॥ तत्र हस्त्रस्य दीर्घः। अन्तर्वेदिः । अन्ता वेई ॥ सप्तविंशतिः । सत्तावीसावचिन्न भवति । जुवइ-अगो॥ कचिद् विकल्पः। वारी-मई । वारिमई ॥ भुजयन्त्रम् । मुआ-यन्तं भुअ-यन्तं ॥ पतिगृहम् । पई-हरं पह-हरं । : वेलू-वणं वेलवणं ॥ दीर्घस्य हस्वः। निअम्ब-सिल खलिअ वीई-मालस्त ॥ क्वचिद् विकल्पः। जउण-यडं जंउणा यडं। नइ-सोत्तं नई सोत्तं । गोरि-हरं गोरी हरं । वहु-मुहं वहूमुहं ॥४॥ - पदयोः संधिर्वा । ८।१।५। . संस्कृतोक्तः संधिः सर्व प्राकृते पदयोर्व्यवस्थितवि. भाषया भवति ॥ वासेसी वासइसी । विसमायवो विसम-आयवो । दहिईसरो दहीसरो। साऊअयं साउ. उअयं । पदयोरिति किम् । पाओ । पई । वत्थाओ। मुद्धाइ । मुद्धाए । महइ । महए ॥ बहुलाधिकारात् कचिद् एकपदेऽपि काहिइ काही। बिइओ वीओ॥५॥ १. न युवर्णस्यास्वे । ८ । १।६। ...इवर्णस्य उवर्णस्य च अस्वे वर्णे परे संधिर्न भवति ॥ न वेरिवग्गे वि अवयासो। वन्दामि अज्ज-वरं।