________________
ॐ अहम प्राकृतव्याकरणम्
अथ प्राकृतम् । ८।१।१। अथशब्द आनन्तर्यार्थोऽधिकारार्थश्च ॥प्रकृतिः संस्था तम्, तत्र भवं तत आगतं प्राकृतम् । संस्कृतानन्तरं प्राकृतमधिक्रियते॥संस्कृतानन्तरं च प्राकृतस्यानुशासनं सिद्धसाध्यमानभेदसंस्कृतयोनेरेव तस्य लक्षणं न देश्यस्थ इति ज्ञापनार्थम् । संस्कृतसमं तु संस्कृतलक्षणेनैव गता. र्थम् । प्राकृते च प्रकृतिप्रत्ययलिङ्गकारकसमाससंज्ञादयः संस्कृतवद्वेदितव्याः ॥ लोकाद् इति च वर्तते । तेन ऋऋ-ल-ल-ऐ-औ-ङ-अ-श-ष-विसर्जनीय-प्लुतवों वर्णसमानायो लोकादवगन्तव्यः। ङौ स्ववर्यसंयुक्तो भवत एव । ऐदौतौ च केषांचित् । कैतवम्, कैअवं । सौ. न्दर्यम् , सौंअरिअं। कौरवाः कौरवा ॥ तथा अस्वरं व्यजनं द्विवचनं चतुर्थीबहुवचनं च न भवति ॥१॥
बहुलम् । ८।१।२। बहुलम् इत्यधिकृतं वेदितव्यम् आशास्त्रपरिसमाप्तेः॥ ततश्च । 'कचित् प्रवृत्तिः कचिदप्रवृत्तिः, कचिद् विभाषा कचिद् अन्यदेव' भवति । तच्च यथास्थानं दर्शयिष्यामः ॥२॥
७८