________________
[६१० ]
हेमशब्दानुशासनस्य
सप्तम्या निर्दिष्टं यत् कार्यमुक्तं तत् पूर्वस्याऽव्यवधेः स्यात् । दध्यत्र । इह मा भूत्, समित्र ॥ १०५ ॥ षष्ठ्या ऽन्त्यस्य । ७ । ४ । १०६ ।
षष्ठया निर्दिष्टं यदुक्तं तत् षष्ठ्युक्तस्य योऽन्त्यस्तस्य स्यात् । अष्टाभिः ॥ १०६ ॥
अनेकवर्णः सर्वस्य । ७ । ४ । १०७ ।
अयं विधिः षष्ठयोक्तस्य सर्वस्यैव स्यात् । तिसृभिः ॥ १०७ ॥
प्रत्ययस्य । ७ । ४ । १०८ । प्रत्ययस्थानिंनो विधिः सर्वस्य स्यात् । सर्वे ॥ १०८ ॥ स्थानीवाऽवर्णविधौ । ७ । ४ । १०९ ।
आदेश आदेशीव स्यात्, न चेत् स्थानिवर्णाऽऽश्रयं कार्यम् । भव्यम्, कस्मै, राजा, प्रकृत्य, प्रस्तुत्य, धर्मो वो रक्षतु । अवर्णविधाविति किम् ? द्योः क इष्टः, प्रदीव्य ॥ १०९ ॥
स्वरस्य परे प्राविधौ । ७ । ४ । ११० । स्वरस्यादेशः परनिमित्तकः पूर्वविधौ विधेये स्थानीव स्यात् । कथयति, पादिकः स्रंस्यते । पर इति किम् ? द्विपदिकां दत्ते । प्राविधाविति किम् ? नैधेयः ॥ ११० ॥
१ अष्टासु इत्यन्त्र “वाऽष्टन आः स्यादौ " सूत्रेणान्त्यस्यैवाऽऽकारः सम्पद्यते । २ तिसृभिरित्यत्र “त्रिचतुरस्तिसृचतसृ स्यादौ” (२–१–१) इत्यत्र समस्यस्य त्रेः स्यात् । एवं “भिस ऐस्” (१-४-२) इत्यत्रापि सर्वस्यैव भिस; स्थाने आदेशः स्यात्, अनेकवर्णा देशत्वात् ।