________________
स्वोपज्ञलघुवृत्तिः [५८१) नव्ययात् सङ्ख्याया डः।७।३ । १२३ ।
आभ्यां परो यः सङ्ख्यार्थः, तदन्तात् तत्पुरुषात डः स्यात् । अदशाः, निस्त्रिंशः खड्गः ॥ १२३ ॥ सङ्ख्याऽव्ययादइगुलेः। ७।३ । १२४ । ..
आभ्यां परो योऽङ्गुलिः, तदन्तात् त-पुरुषात् डास्यात्। द्वयङ्गुलम् , निरङ्गुलम् ॥ १२४ ॥
बहुव्रीहेः काष्ठे टः । ७।३ । १२५ । काष्ठार्थादङ्गल्यन्ताद् बहुव्रीहेः टः स्यात् । द्वयङ्गलं काष्ठम् । काष्ठ इति किम् ? पश्चाङ्गुलिहस्तः ॥ १२५ ॥
सकत्थ्यक्ष्णः स्वाथे । ७।३ । १२६ । स्वाङ्गाथौँ यो सक्थ्यक्षी, तदन्ताद् बहुव्रीहेः टः स्यात् । दीर्घसक्थी, स्वक्षी। स्वाङ्ग इति किम् ? दीर्घसक्थि अनः ॥ १२६ ॥ .
दिनों वा ७ । ३ । १२७ । आभ्यां परो यो मूर्द्धा, तदन्ताद् बहुव्रीहेः टो वा स्यात् । द्विमूर्द्धः, द्विमूर्दा । त्रिमूर्द्धः, त्रिमूर्दा ॥ १२७ ॥
प्रमाणी-सङ्ख्यात् डः । ७।३।१२८ । .. प्रमाण्यन्तात्, सङ्खयार्थाच्च बहुव्रीहेडः स्यात् । स्त्रीप्रमाणाः कुम्बिनः, द्वित्राः ॥ १२८ ॥
सुप्रात-सुश्व सुदिव-शारिकुक्ष--चतुरस्त्रैणीपदाऽजपद-प्रोष्ठपद-भद्रपदम् । ७।३ । १२९ ।
एते बहुव्रीहयो डान्तानिपात्याः ।सुप्रातो ना सुश्वः, सुदिवः, शारिकुक्षः, चतुरस्रः एणीपदः, अजपदः, प्रोष्ठपदः, भद्रपदः ॥ १२९ ॥