________________
- स्वोपज्ञलघुवृत्तिः
[५७१] मत्स्यः ॥ ५९॥
पूगादमुख्यकात् ज्यो दिः । ७ । ३।६० नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सञ्चाः पूगाः। तदर्थात् स्वार्थे यो द्रिः स्यात्, न चेत् पूगार्थ मुख्यार्थकान्तम् लौहध्वज्यः लोहध्वजाः । अमुख्यका. दिति किम् ? देवदत्तकः पूगः ।। ६०॥
वातादस्त्रियाम् । ७।३। ६१। । नानाजातीया अनियतवृत्तयः शरीरायासजीविनः सङ्घा वाताः। तदर्थादस्त्रियां स्वार्थे ज्यो द्रिः स्यात् । कापोतपाक्या, स्त्री तु कपोतपाका ॥ ६१ ॥
शस्त्रजीविसङ्घात् ज्यद्वा। ७ । ३ । ६२ । एतदर्थात् स्वार्थे दिय॑ड् वा स्यात् । शावर्यः । शबराः, पुलिन्दाः। पक्षे, शबरः। सङ्घादिति किम् ? वागुरः ॥ ६२॥
वाही केष्वब्राह्मण-राजन्येभ्यः । ७।३। ६३ । ___ एषु यः शस्त्र जीविसङ्घो ब्राह्मणराजन्यवर्ज: तदर्थाव स्वार्थे दियट् स्यात् । कौण्डीविश्या, कुण्डीविशाः । अब्राह्मणेत्यादीति किम् ? गौपालिः, राजन्यः ॥ ६३ ॥
वृकात् टेण्यण । ७।३। ६४ । वृकात् शस्त्रजीविसङ्घार्थात् स्वार्थे टेण्यण् द्रिः स्यात् । वार्कण्यः ॥ ६४॥
१ द्रिकरणातू वहुत्वेऽस्त्रियां प्रत्ययलुप् स्यात् । यथा लोहवजा इति ।