________________
स्वोपज्ञलघुवृत्तिा [५४७] इतोऽतः कुतः।७।२।९। । एते तसन्ता निपात्याः ।। ९० ।। भवत्वायुष्मद्-दीर्घाऽऽयुष्-देवानांप्रियका
र्थात् । ७।२ । ९१ । भवत्वाद्यस्तुल्याधिकरणात किमद्वयादिसर्वाधवैपुल्यबहोः सर्वस्याद्यन्तात् पित् तस् वा स्यात् । म भवान् , ततो भवान् । ते भवन्तः, ततो भवन्तः। स आयुष्मान्, तत आयुष्मान् । स दीर्घायुः, ततो दीर्घायुः। तं देवानां. प्रियम् , ततो देवानांप्रियम् । ९१ ॥
त्रप च । ७ । २ । ९२ ॥ , भवत्वाचैरेकार्थात् किमद्वयादिसर्वायवैपुल्यबहोः सर्वस्याद्यन्तात् त्रप् च वा स्यात् । स भवान् , तत्र भवान् , ततो भवान् । तस्मिन् भवति, तत्र भवति, ततो भवति । आयुष्मदादिनाऽप्येवम् ॥ ९२॥
क-कुत्राऽत्रेह । ७।२।९३। . एते त्रयन्ता निपात्याः ॥ ९३ ॥
. सप्तम्याः ।। २ । ९४ । - सप्तम्यन्तात् किमयादिसर्वाद्यवैपुल्यबहोः त्रपू स्यात् । कुत्र, सर्वत्र, तत्र, बहुत्र ॥ ९४ ॥ किम्-यत्-तत्-सर्वैकाऽन्यात काले दा।७।२।९५/ एभ्यो ड्यन्तेभ्यः कालेऽर्थे दा स्यात् । कदा, यदा,
१ अयं तस प्रथमाऽऽदिसप्तविभक्त्यन्तेभ्यः नामभ्यः स्यात् । एवं प्रवपि । तेन तत्र भवता ततो भवता, तस्य भवतः, तत्र भवतः, ततो भवंत
इति सप्तमपि ।