________________
[५४६] हेमशब्दानुशासनस्य क्षिप्रोऽतिग्रायो न व्यथते वा । अकर्तुरिति किम् ? मैत्रेण क्षिप्तः ॥ ८५ ॥
पाप-हीयमानेन । ७।२ । ८६ । आभ्यां योगे टान्तादकर्तुस्तसुः स्यात । वृत्ततः पापो हीयते वा ॥ ८६ ॥
प्रतिना पञ्चम्याः। ७।३ । ८७ । . प्रतिना योगे जातपश्चम्यन्तात् तप्सुर्वा स्यात् । अभिमन्युरर्जुनाद् , अर्जुनतो वा प्रति ।। ८७ ।।
अहीय-रुहोऽपादाने ।७। २ । ८८ । अपादानपञ्चम्यन्तात सुर्वा स्यात , न चेत् तत् हीय. रुहोः। ग्रामाद् ग्रामतो वैति । अहीयरुह. इति किम् ? सार्थाद् हीनोः गिरेरवरोहति ॥ ८८ ॥ 'किमयादिसर्वायवैपुल्यबहोः पित्
तस् । ७ । २ । ८९ । किमोऽद्वयादिवर्जसर्वादिभ्योऽवैपुल्यार्थबहोश्च ङस्यन्तात् तस् पित् स्यात् । कुतः, सर्वतः. यतः, बहुतः। द्वयादिवर्जनं किम् ? द्वाभ्याम् , त्वत् । अवैपुल्येति किम् ? बहोः सूपात् ।। ८९ ॥
, द्वि-युष्मद्-भवतु-अस्मद्-किम् इतिद्वयादयः। किमो द्वयादिगत्वात् पृथग्रहणं कृतम् । त्वत् इति युष्मदः पञ्चमीरूपम् । एवं मत् , भवत इत्यत्र तस् न स्यात् । द्वितो, युष्मत्तो मत्त इति प्रयोगास्तु "अहीयरुहो..."सूत्रात स्युः। तसि "आ देरः" (पृ. ५२) इत्यत्त्वम् । स्त्रीपुनपुंसकइति त्रिष्वपि लिङ्गेषु तस्त्रपौ भवतः ।