________________
-
स्वोपज्ञलघुवृत्तिः [५३७] बल-वात-दन्त-ललाटादूलः । ७।२ । १९ । एभ्यो मत्वर्थे ऊलः स्यात् । बलूलः, वातूल, दन्तूलः ललाटूलः, बलवान् ।। १९ ।।
प्राण्यङ्गादातो लः। ७।२ । २० । प्राण्यङ्गार्थाद् आदन्तात् मत्वर्थे लः स्यात् । चूडाला, चूडावान् । प्राण्यङ्गादिति किम् ? जङ्घावान् प्रासादः ॥२०॥ सिध्माऽऽदि-क्षुद्रजन्तु-रुग्भ्यः । ७।२ । २१ ।
सिधमादेः, क्षुद्रजन्त्वर्थाद् हार्थाच्च मत्वर्थे लः स्यात् । सिध्मलः, सिध्मवान्, वर्मला यूकालः, मूछालः ॥२१॥
प्रज्ञा-पर्णोदक-फेनार लेलौ ।७।२। २२ । एभ्यो मत्यर्थे लेलो स्याताम् । प्रज्ञाला, प्रज्ञिला, पर्णः लः, पर्णिला, उदकलः, उदकिला, फेनला, फेनिला फेन वान् ॥ १२ ॥ . . .
काला-जटा-घात् क्षेपे । ७।२।१३ । एभ्यो मत्वर्थे लेली स्वाताम्, क्षेपे गम्ये । कालासा, कालिलः, जटालः, जटिला, घाटाला, घाटिलः । क्षेप इति किम् ? कालावान् ॥ २३ ॥
वाचे आलाऽऽटौ ।७।२।२४। मत्वर्थे स्याताम्,क्षेपे गम्ये। पाचालः, वाचाटः॥ २४ ॥
ग्मिन् । ७।२।। २५। वाचो मत्वर्थे ग्मिन् स्यात् । वाग्मी, वाग्वान् ॥ २५ ॥'
१ कुत्सितमाषिणि एतौ स्माता, प्रशंसायां तु "ग्मिन्" सूत्राद् वाग्मी, वाग्वान् का स्यादित्यर्थः।