________________
स्वोपज्ञलघुतिः [५२७) - अधिकं तत्सङ्ख्यमस्मिन् शत-सहले शति-शत
दशान्ताया ः।७।१ । १५४ । स्यन्तात् शत्याद्यन्तात् सङ्ख्यार्थादस्मिन्निति क्य, शतसहस्रे च डः स्यात् , स्यन्तं चेदधिकं शतादिसरूप च वस्तु स्यात् । विशं योजनशतं, योजनसहस्रं वा, एवं त्रिंशम् , एकादशम् । तत्संख्यमिति किम् ? विंशतिर्दण्डा अधिका अस्मिन् योजनशते ॥ १५४ ॥
सङ्ख्यापूरणे डट् । ७ । १ । १५५ । सङ्ख्या पूर्यते येन तत्रार्थे सङ्कल्याया डट् स्यात् । एकादशी। सङ्ख्येति किम् ? एकादशानामुष्ट्रिकाणां पूरणो घटः ॥ १५५॥
विशत्यादेवा तमट् । ७।१।१५६ ।
अस्याः सङ्ख्यायाः सङ्ख्यापूरणे तमद् का स्यात। विंशतितमः, विंशः । त्रिशत्तमः, त्रिंशः ॥ १५६ ॥
शताऽऽदिमासाऽद्धमास-संवत्सरात् । ७।१।१५७) ___ शतादेः सङ्ख्याया मासादेश्च सङ्ख्यापूरणे तमट् स्यात् । शततमी, सहस्रतमी, मासतमः, अर्द्धमासतमा, संवत्सरतमो दिनः ॥ १५७ ॥
षष्ट्यादेरसङ्ख्याऽऽदेः । ७।१ । १५८ । सङ्ख्यादिरवयवो यस्य तर्जात् षष्टयादेः सङ्ख्या पूरणे तमट् स्यात् । षष्टितमः, सप्ततितमः । असङ्ख्याऽऽदेरिति किम् ? एकषष्टः ॥ १५८ ॥
नो मट् । ७।१ । १५९ । असङ्ख्यादेर्नान्तायाः सङ्ख्यायाःसङ्ख्यापूरणे मट्